भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.52

14.52.1

ततोऽभ्यनोदयत्कृष्णो युज्यतामिति दारुकम् ।
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ॥

14.52.2

तथैव चानुयात्राणि चोदयामास पाण्डवः ।
सन्नह्यध्वं प्रयास्यामो नगर गजसाह्वयम् ॥

14.52.3

इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते ।
आचख्युः सज्जमित्येवं पार्थायामिततेजसे ॥

14.52.4

ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ ।
विकुर्वाणौ कताश्चित्राः प्रीयमाणौ विशाम्पते ॥

14.52.5

रथस्थं तु महातेजा वासुदेवं धनञ्जयः ।
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ॥

14.52.6

त्वत्प्रसादाज्ज्यः प्राप्तो राज्ञा वृष्णिकुलोद्वह ।
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ॥

14.52.7

नाथवन्तश्च भवता पाण्डवा मधुसूदन । भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ।
भक्तांस्त्वमाश्रितानस्मान्पालयामुत्र चेह च ।

14.52.8

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसत्तम ।
तथा त्वामभिजानामि तथा चाहं भवान्मतः ॥

14.52.9

त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन ।
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ॥

14.52.10

त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम् ।
त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम् ॥

14.52.11

पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् ।
हसिन्तं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियाणि ते ॥

14.52.12

प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः ।
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ॥

14.52.13

रतिस्तुष्टिर्धृतिः क्षान्तिर्मतिः कान्तिश्चराचरम् ।
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनध ॥

14.52.14

सुदीर्घेणापि कालेन न ते शक्या गुणा मया ।
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ॥

14.52.15

विदितो मे सुदुर्धर्ष नारदाद्देवलात्तथा ।
कृष्णद्वैपायनाच्चेव तथा कुरुपितामहात् ॥

14.52.16

त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः ।
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयाऽनघ ॥

14.52.17

एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन ।
इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया ॥

14.52.18

यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः ।
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ॥

14.52.19

भवता तत्कृतं कर्म येनावाप्तो जयो मया ।
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः ॥

14.52.20

कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः ।
सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥

14.52.21

तस्मात्त्वमेव सञ्चिन्त्य हितं कुरु यथा तथा । अहं च प्रीयमाणेन त्वया देवकिनन्दन ।
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥

14.52.22

राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् ।
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ॥

14.52.23

आहृतं हि ममैतत्ते द्वारकागमनं प्रभो । अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन ।
बलदेवं च दुर्धर्षं तथाऽन्यान्वृष्णिपुङ्गवान् ॥

14.52.24

एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम् ।
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ॥

14.52.25

तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् ।

14.52.25

ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ॥

14.52.26

विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् ।
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ॥

14.52.27

धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ।
गान्धारीं च महाप्रज्ञां पृथा कृष्णां च भामिनीम् ॥

14.52.28

सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ।
ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः ॥

14.52.29

ततः समेत्य राजानं धृतराष्ट्रमरिन्दमौ ।
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ॥

14.52.30

गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि ।
भीमस्य च महात्मानौ तथा पादावगृह्णताम् ॥

14.52.31

क्षत्तारं चापि सङ्गृह्य पृष्ट्वा कुशलमव्ययम् । परिष्वज्य महात्मानं वेश्यापुत्रं महारथम् ।
तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम् ॥

14.52.32

ततो निशि महाराजो धृतराष्ट्रः कुरूद्वहान् ।
जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥

14.52.33

तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् ।
धनञ्जयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥

14.52.34

तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः ।
कृष्णः सुष्वाप मेधावी धनञ्जयसहायवान् ॥

14.52.35

प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्णिकीं क्रियाम् । धर्मराजस्य भनं जग्मतुः परमार्चितौ ।
यत्रास्ते स सहामात्यो धर्मराजो महाबलः ॥

14.52.36

तौ प्रविश्य महात्मानौ तद्गृहं परमार्चितम् ।
धर्मराजं ददृशतुर्देवराजमिवाश्विनौ ॥

14.52.37

समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ ।
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ ॥

14.52.38

ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ ।
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥

14.52.39

विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ ।
ब्रूतं कर्तास्मि सर्वं वां नचिरान्मा विचार्यताम् ॥

14.52.40

इत्युक्तः फल्गुनस्तत्र धर्मराजानमब्रवीत् ।
विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥

14.52.41

अयं चिरोषितो राजन्वासुदेवः प्रतापवान् ।
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ॥

14.52.42

स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे ।
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ॥
युधिष्ठिर उवाच ।

14.52.43

पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मदुसूदन ।
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो ॥

14.52.44

रोचते मे महाबाहो गमनं तव केशव ।
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ॥

14.52.45

समेत्यि मातुलं गत्वा बलदेवं च मानद ।
पूजयेथा महाप्राज्ञ मद्वाक्येन यथाऽर्हतः ॥

14.52.46

स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् ।
फाल्गुनं सहदेवं च नकुलं चैव मानद ॥

14.52.47

आनर्तानवलोक्य त्वं पितरं च महाभुजः ।
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ॥

14.52.48

स गच्छ रत्नान्यादाय विविधानि वसूनि च ।
यच्चप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥

14.52.49

इयं च वसुधा कृत्स्ना प्रसादात्तव केशव ।
अस्मानुपागता वीर निहताश्चापि शत्रवः ॥

14.52.50

स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम् । संसारगहने चेद्धपापाग्निप्रशमाम्बुद ॥

14.52.51

एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे ।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥

14.52.52

तवैव रत्नानि धनं च केवलं धरा तु कृत्स्ना तु महाभुजाद्य वै ।
यदस्ति चान्यद्द्रविणं गृहे मम त्वमेव तस्येश्वर नित्यमीश्वरः ॥

14.52.53

तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान् ।
पितृष्वसारं त्ववदद्यथाविधि सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ॥

14.52.54

तया स सम्यक् प्रतिनन्दितस्तत- स्तथैव सर्वैर्विदुरादिभिस्तथा ।
विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्भुजः स्वयम् ॥

14.52.55

रथे सुभद्रामधिरोप्य भामिनीं युधिष्ठिरस्यानुमते जनार्दनः ।
पितृष्वसुश्चापि तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः ॥

14.52.56

तमन्वयाद्वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि ।
अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः ॥

14.52.57

निवर्तयित्वा कुरुराष्ट्रवर्धनां- स्ततः स सर्वान्विदुरं च वीर्यवान् ।
जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिं तथा ॥

14.52.58

ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः ।
यथा निहत्यारिगणं शतकतु- र्दिवं तथाऽनर्तपुरीं प्रतापवान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc