भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.51

14.51.1

भूतानामथ पञ्चानामथेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतानां मन एव च ॥

14.51.2

अधिष्ठातृमनो नित्यं भूतानां महतां तथा ।
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते ॥

14.51.3

इनद्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः ।
इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा ॥

14.51.4

महदश्वसमायुक्तं बुद्धिसंयमनं रथम् ।
समारुह्य स भूतात्मा समन्तात्परिधावति ॥

14.51.5

इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च ।
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ॥

14.51.6

एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥

14.51.7

अव्यक्तादिविशेषान्तं सहस्थावरजङ्गमम् ॥
सूर्यचन्द्रप्रभालोकं ग्रहनक्षत्रमण्डितम् ॥

14.51.8

नदीपर्वतजालैश्च सर्वतः परिभूषितम् ।
विविधाभिस्तथा चाद्भिः सततं समलन्कृतम् ॥

14.51.9

अजितं सर्वभूतानां सर्वप्राणभृतां गतिः ।
एतद्ब्रह्मवनं नित्यं तस्मिंश्चरति क्षेत्रवित् ॥

14.51.10

लोकेऽस्मिन्यानि सत्वानि त्रसानि स्थावराणि च । तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः ।
गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः ॥

14.51.11

देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः ।
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥

14.51.12

एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः । तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु ।
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ॥

14.51.13

विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतास्तु सर्वशः ।
भूतेब्यश्चापि पञ्चभ्यो भुक्तो गच्छेत्परां गतिम् ॥

14.51.14

प्रजापतिरिदं सर्वं मनसैवासृजत्प्रभुः ।
तथैव देवानृषयस्तपसा प्रतिपेदिरे ॥

14.51.15

तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा ।
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ॥

14.51.16

औषधान्यगदादीनि नानाविद्याश्च सर्वशः ।
तपसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम् ॥

14.51.17

यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् ।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥

14.51.18

सुरापो ब्रह्महा स्तेनो भ्रूणहागुरुतल्पगः ।
तपसैव सुतप्तेन मुच्यते किल्बिषात्ततः ॥

14.51.19

मनुष्याः पितरो देवाः पशवो मृगपक्षिणः ।
यानि चान्यानि भूतानि चराणि स्थावराणि च ॥

14.51.20

तपःपरायणा नित्यं सिद्ध्यन्ते तपसा सदा ।
तथैव तपसा देवा महाभागा दिवं गताः ॥

14.51.21

आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः ।
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः ॥

14.51.22

ध्यानयोगेन शुद्वेन निर्ममा निरहन्कृताः ।
आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ॥

14.51.23

ध्यानयोगमुपागम्य प्रसन्नमतयः सदा ।
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः ॥

14.51.24

ध्यानयोगादुपागम्य निर्ममा निरहन्कृताः ।
अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम् ॥

14.51.25

अव्यक्तादेव सम्भूताः समयज्ञा गताः पुनः ।
तमोरजोभ्यां निर्मुक्ताः सत्वमास्थाय केवलम् ॥

14.51.26

निर्मुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः ।
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ॥

14.51.27

चित्तं चित्तादुपागम्य मुनिरासीत संयतः ।
यच्चित्तस्तन्मना भूत्वा ग्राह्यमेतत्सनातनम् ॥

14.51.28

अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम् ।
निबोधत तथा ज्ञानं गुणैर्लक्षणमित्युत ॥

14.51.29

द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥

14.51.30

कर्म केचित्प्रशंसन्ति मन्दबुद्धितया नराः ।
ये तु वृद्धा महात्मानो न प्रशंसन्ति कर्म ते ॥

14.51.31

कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः ।
पुरुषं ग्रसते विद्या तद्ग्राह्यममृताशिनम् ॥

14.51.32

तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः ।
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ॥

14.51.33

य एवममृतं नित्यमग्राह्यं शश्वदक्षरम् ॥
वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत् ॥

14.51.34

अपूर्वमकृतं नित्यं य एनमविचारिणम् । य एवं विन्देदात्मानमग्राह्यममृताशनम् ।
अग्राह्यो ह्यमृतो भवति स एभिः कारणैर्ध्रुवः ॥

14.51.35

आयोज्य सर्वसंस्कारान्संयम्यात्मानमात्मनि ।
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ॥

14.51.36

प्रसादे चैव सत्वस्य प्रसादं समवाप्नुयात् ।
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ॥

14.51.37

गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः ।
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ॥

14.51.38

एषा गतिर्विरक्तानामेष धर्मः सनातनः ।
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ॥

14.51.39

समेन सर्वभूतेषु निस्पृहेण निराशिषा ।
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ॥

14.51.40

एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः ।
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ॥
गुरुरुवाच ।

14.51.41

इत्युक्तास्ते तु मुनयो गुरुणा ब्रह्मणा तथा ।
कृतवन्तो महात्मानस्ततो लोकमवाप्नुवन् ॥

14.51.42

त्वमप्येतन्महाभाग मयोक्तं ब्रह्मणो वचः ।
सम्यगाचर शुद्धात्भंस्ततः सिद्धिमवाप्स्यसि ॥
वासुदेव उवाच ।

14.51.43

इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् ।
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ॥

14.51.44

कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह ।
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥
अर्जुन उवाच ।

14.51.45

को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन ।
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ॥
वासुदेव उवाच ।

14.51.46

अहं गुरुर्महाबाहो मनः शिष्य च विद्धि मे ।
त्वत्प्रीत्या गुह्यमेतच्च कथितं ते धनञ्जय ॥

14.51.47

मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह ।
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ॥

14.51.48

ततस्त्वं सम्यगाचीर्णो धर्मेऽस्मिन्नरिकर्शन ।
सर्वपापविनिर्मुक्तो मोक्षं प्राप्स्यसि केवलम् ॥

14.51.49

पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते ।
मया तव महाबाहो तस्मादत्र मनः कुरु ॥

14.51.50

मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः ।
तमहं द्रष्टमिच्छामि सम्मते तव फल्गुन ॥
वैशम्पायन उवाच ।

14.51.51

इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः ।
यदिष्टं कुरु सर्वेषामीश्वरोऽस्मान्प्रपालय ॥

14.51.52

नमस्ते सर्वलोकात्मन्नारायण परात्पर । मनोमलात्तपोशक्यं कर्म चाविद्यया हतम् ।
दानमप्यर्थदोषेणि नाम तस्मात्कलौ स्मरेत् ॥

14.51.53

यदि गन्तुं कृता बुद्धिर्वासुदेव नमोस्तु ते । गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ॥

14.51.54

समेत्य तत्रि राजानं धर्मात्मानं युधिष्ठिरम् ।
समनुज्ञाप्य राजानं स्वां पुरीं यातुमर्हसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc