भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.49

14.49.1

को वा स्विदिह धर्माणामनुष्ठेयतमो मतः ।
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ॥

14.49.2

ऊर्द्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे ।
केचित्संशयितं सर्वं निःसंशयमथापरे ॥

14.49.3

अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे ।
त्रिधेत्येके द्विधेत्येके व्याकीर्णमिति चापरे ॥

14.49.4

मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः ।
एकमेके पृथक्चान्ये बहुत्वमिति चापरे ॥

14.49.5

देशकालावुभौ केचिन्नैतदस्तीति चापरे ।
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ॥

14.49.6

अश्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः ।
मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः ॥

14.49.7

आहारं केचिदिच्छन्ति केचिच्चानशने रताः ।
कर्म केचित्प्रशंसन्ति प्रशान्ति चापरे जनाः ॥

14.49.8

केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् । धनानि केचिदिच्छन्ति निर्धनत्वमथापरे ।
उपास्य साधनं त्वेके नैतदस्तीति चापरे ॥

14.49.9

अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः ।
पुण्येन यशसा चान्ये नैतदस्तीति चापरे ॥

14.49.10

सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः ।
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः ॥

14.49.11

यज्ञ इत्यपरे विप्राः प्रदानमिति चापरे ।
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः ॥

14.49.12

ज्ञानं सन्न्यासमित्येके स्वभावं भूतचिन्तकाः ।
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ॥

14.49.13

एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते ।
निश्चयं नाधिगच्छामः श्रेयः किमिति सत्तम ॥

14.49.14

इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः ।
यो हि यस्मिन्रतो धर्म स तं पूजयते सदा ॥

14.49.15

तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम् ।
एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम ॥

14.49.16

अतः परं तु यद्गुह्यं तद्भवान्वक्तुमर्हति ।
सत्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना ॥

14.49.17

एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः ।
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc