भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.48

14.48.1

केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं वनम् । केचित्परममव्यक्तं केचित्परमनामयम् ।
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ॥

14.48.2

उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् ।
आत्मानमुपसङ्म्य सोमृतत्वाय कल्पते ॥

14.48.3

निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि ।
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥

14.48.4

प्राणायामैरथ प्राणान्संयम्य स पुनःपुनः ।
दशद्वादशभिर्वापि चतुर्विंशात्समन्ततः ॥

14.48.5

एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति ।
अव्यक्तात्सत्वमुद्रिक्तममृतत्वाय कल्पते ॥

14.48.6

सत्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः । अनुमानाद्विजानीमः पुरुषं सत्वसंश्रयम् ।
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः ॥

14.48.7

क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
ज्ञानं त्यागोथ सन्न्यासः सात्विकं वृत्तमिष्यते ॥

14.48.8

एतेनैवानुमानेन मन्यन्ते वै मनीषिणः ।
सत्वं च पुरुषश्चैव तत्र नास्ति विचारणा ॥

14.48.9

आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः ।
क्षेत्रज्ञसत्वयोरैक्यमित्येतन्नोपपद्यते ॥

14.48.10

पृथग्भूतस्तथा नित्यमित्येतदविचारितम् ।
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ॥

14.48.11

तथैवैकत्वनानात्वमिष्यते विदुषां नयः ।
मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते ॥

14.48.12

मत्स्यो यथाऽन्यः स्यादप्सु सम्प्रयोगस्तथा तयोः ।
सम्बन्धस्तोयबिन्दूनां पर्णैः कोकनदस्य च ॥
गुरुरुवाच ।

14.48.13

इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम् ।
पुनः संशयमापन्नाः पप्रच्छुर्मुनिसत्तमाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc