महाभारत · अध्याय 14.47
सन्न्यासं तप इत्याहुर्वृद्धा निश्चितवादिनः ।
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ॥
अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम् ।
निर्द्वन्द्वं निर्गुणं नित्यमचिन्त्यगुणमुत्तमम् ॥
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्परम् ।
निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमलाः ॥
तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम् ।
सन्न्यासनिरता नित्यं ये च ब्रह्मविदो जनाः ॥
तपः प्रदीप इत्याहुराचारो धर्मसाधकः ।
ज्ञानं वै परमं विद्यात्सन्न्यासं तप उत्तमम् ॥
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् ।
सर्वभूतस्थमात्मानं स सर्वविदिहोच्यते ॥
यो विद्वान्सहवासं च विवासं चैव पश्यति ।
तथैवेकत्वनानात्वे स दुःखात्प्रतिमुच्यते ॥
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते ।
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥
प्रधानगुणतत्त्वज्ञः सर्व भूतविधानवित् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च ।
निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति ॥
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् ।
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ॥
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् ।
महाहङ्कारविटप इन्द्रियान्तरकोटरः ॥
महाभूतविशाखश्च विशेषप्रतिशाखवान् ।
सदापत्रः सदापुष्पः शुभाशुभफलोदयः ॥
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ।
एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः ॥
हित्वा सङ्गमयान्पाशान्मृत्युजन्मजरोदयान् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥
द्वाविमौ पक्षिणौ नित्यौ सन्क्षेपौ चाप्यचेतनौ ।
एताभ्यां तु परो योन्यश्चेतनावान्स उच्यते ॥
अचेतनः सत्वसङ्ख्याविमुक्तः सत्त्वात्परं चेतयतेऽन्तरात्मा ।
स क्षेत्रवित्सर्वसङ्ख्यातबुद्धि- र्गुणातिगो मुच्यते सर्वपापैः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0