भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.39

14.39.1

अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् ।
सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ॥

14.39.2

आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च ।
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ॥

14.39.3

क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ॥

14.39.4

मुधाज्ञानं मुधावृत्तं मुधासेवा मुदाश्रमः ।
एवं यो युक्तधर्मः स्यात्सोमुत्रात्यन्तमश्नुते ॥

14.39.5

निर्ममो निरहङ्कारो निराशीः सर्वतः समः ।
अकामहत इत्येव सतां धर्मः सनातनः ॥

14.39.6

विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता ।
आनृशंस्यमसम्मोहो दया भूतेष्वपैशुनम् ॥

14.39.7

हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तिता ।
शान्तिकर्मविशुद्धिश्च भावशुद्धिर्विमोचनम् ॥

14.39.8

उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः ।
निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता ॥

14.39.9

मुधादानं मुधायज्ञो मुधाधीतं मुधाव्रतम् ।
मुधाप्रतिग्रहश्चैव मधाध्रमो मुधातपः ॥

14.39.10

एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्वसंश्रयाः ।
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ॥

14.39.11

हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः ।
दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः ॥

14.39.12

ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा ।
विकुर्वते महात्मानो देवास्त्रिदिवगा इव ॥

14.39.13

ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः ।
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ॥

14.39.14

यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च । इत्येतत्सात्विकं वृत्तं कथितं वो द्विजर्षभाः ।
एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति ॥

14.39.15

प्रकीर्तिताः सत्त्वगुणा विशेषतो यथावदुक्तं गुणवृत्तमेव च ।
नरस्तु यो वेद गुणानिमान्सदा गुणान्स भुङ्क्ते न गुणैः स युज्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc