महाभारत · अध्याय 14.38
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः ।
निबोधत महाभागा गुणवृत्तं च राजसम् ॥
सन्तापो रूपमायासः सुखदुःखे हिमातपौ ।
ऐश्वर्यं विग्रहः सिद्धिर्हेतुवादोऽरतिः क्षमा ॥
बलं शौर्यं मदो रोषो व्यायामकलहावपि ।
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ॥
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च ।
निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम् ॥
उग्रं दारुणमाक्रोशः परवित्तानुरागिता ।
लोकचिन्ताऽनुचिन्ता च मत्सरः परिभाषणम् ॥
वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम् ।
निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम् ॥
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः ॥
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः ॥
संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक् ।
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ॥
सन्तापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये ।
प्रधानमाशीर्युक्तं च सततं मे भवत्विति ॥
स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया ।
याजनाध्यापने चोभे यजनाध्ययने अपि ॥
दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम् ।
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः ॥
अभिद्रोहस्तथा माया निकृतिर्मान एव च ।
स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः ॥
दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ।
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये ॥
नृत्यवादित्रगीतानां प्रसङ्गा ये च केचन ।
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ॥
भूतभव्यभविष्याणां भावानां भुवि भावनाः ।
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ॥
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः ।
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः ॥
अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः । प्रेत्यभाविकमीहन्ते हलौकिकमेव च ।
ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति ॥
रजोगुणा वो बहुधानुकीर्तिता यथावदुक्तं गुणवृत्तमेव च ।
नरोपि यो वेद गुणानिमान्सदा स राजसैः सर्वगुणैर्विमुच्यते ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0