भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.37

14.37.1

तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् ।
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ॥

14.37.2

एकादशपरिक्षेपं मनोव्याकरणात्मकम् ।
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ॥

14.37.3

त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनःपुनः ।
प्रनाड्यस्तिस्र एवैताः प्रवर्न्तते गुणात्मिकाः ॥

14.37.4

तमो रजस्तथा सत्वं गुणानेतान्प्रचक्षते ।
अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानुजीविनः ॥

14.37.5

अन्योन्यापाश्रयाश्चापि तथाऽन्योन्यानुवर्तिनः ।
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः ॥

14.37.6

तमसो मिथुनं सत्वं सत्वस्य मिथुनं रजः ।
रजसश्चापि सत्वं स्यात्सत्वस्य मिथुनं तमः ॥

14.37.7

नियम्यते तमो यत्र रजस्तत्र निवर्तते ।
नियम्यते रजो यत्र सत्वं तत्र प्रवर्तते ॥

14.37.8

नैशात्मकं तमो विद्यात्त्रिगुणं मोहसञ्ज्ञितम् । अधर्मलक्षणं चैव नियतं पापकर्मसु ।
तामसं रूपमेतत्तु दृश्यते चापि सङ्गतम् ॥

14.37.9

प्रकृत्यात्मकमेवाहू रजः पर्यायकारकम् ।
सत्त्वे तु सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम् ॥

14.37.10

प्रकाशं सर्वभूतेषु लाघवं श्रद्धधानता ।
सात्विकं रूपमेवं तु लाघवं साधुसम्मितम् ॥

14.37.11

एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः ।
समासव्यासयुक्तानि तत्त्वतस्तानि बोधत ॥

14.37.12

सम्मोहो ज्ञानमत्यागः कर्मणामविनिर्णयः ।
स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् ॥

14.37.13

अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता ।
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥

14.37.14

अकृते कृतमानित्वमज्ञाने ज्ञानमानिता ।
अमैत्री विकृतो भावो ह्यश्रद्धा मूढभावना ॥

14.37.15

अनार्जवमसञ्ज्ञत्वं कर्म पापमचेतना ।
गुरुत्वं सन्नभावत्वमवशित्वमवाग्गतिः ॥

14.37.16

सर्व एते गुणा वृत्तास्तामसाः सम्प्रकीर्तिताः ।
ये चान्ये विहिता भावा लोकेऽस्मिन्भावसञ्ज्ञिताः ॥

14.37.17

तत्रतत्र नियम्यन्ते सर्वे ते तामसा गुणाः ।
परिवादकथा नित्यं मेवब्राह्मणवैरिता ॥

14.37.18

अत्यागश्चातिमानश्च मोहो मन्युस्तथाऽक्षमा ।
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥

14.37.19

वृथारम्भा हि ये केचिद्वृथा दानानि यानि च ।
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥

14.37.20

अतिवादोऽतितिक्षा च मात्सर्यमभिमानिता ।
अश्रद्दधानता चैव तामसं वृत्तमिष्यते ॥

14.37.21

एवंविधाश्च ये केचिल्लोकेऽस्मिन्पापकर्मिणः ।
मनुष्या भिन्नमर्यादास्ते सर्वे तामसाः स्मृताः ॥

14.37.22

तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम् । अवाङ्निरयभावा ये तिर्यङ्निरयगामिनः ।

14.37.23

स्थावराणि च भूतानि पशवो वाहनानि च ।
क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः ॥

14.37.24

अब्जाता जन्तवश्चैव सर्वे चापि चतुष्पदाः ।
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥

14.37.25

मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः ।
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥

14.37.26

तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् ।
यथा ते सुकृतां लोकाँल्लभन्ते पुण्यकर्मिणः ॥

14.37.27

अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु ।
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥

14.37.28

संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् ।
स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ॥

14.37.29

अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेषु कर्मसु ।
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥

14.37.30

पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः ॥
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥

14.37.31

शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः ।
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥

14.37.32

अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः ।
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥

14.37.33

तमोमोहो महामोहस्तामिस्रो ह्यन्धसञ्ज्ञितः ।
मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध उच्यते ॥

14.37.34

वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः ।
सर्वमेततमो विप्राः कीर्तितं वो यथाविधि ॥

14.37.35

को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति ।
अतत्त्वे तत्त्वदर्शी यस्तमसस्तच्च लक्षणम् ॥

14.37.36

तमोगुणा बहुविधाः प्रकीर्तिता यथावदुक्तं च तमः परावरम् ।
नरो हि यो वेद गुणानिमान्सदा स तामसैः सर्वगुणैः प्रमुच्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc