भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.28

14.28.1

सन्कल्पदंशमशकं शोकहर्षहिमातपम् ।
मोहान्धकारतिमिरं लोभव्याधिसरीसृपम् ॥

14.28.2

विषयैकात्ययाध्वानं कामक्रोधकिरातकम् ।
तदतीत्य महादुर्गं प्रविष्टोस्मि महद्वनम् ॥
ब्राह्मण्युवाच ।

14.28.3

क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः ।
कियन्तः पर्वताश्चैव कियत्यध्यनि तद्वनम् ॥
ब्राह्मण उवाच ।

14.28.4

नैतदस्ति पृथग्भावः किञ्चिनद्यत्ततः सुखम् ।
नैतदस्त्यपृथग्भावः किञ्चिद्दुःखतरं ततः ॥

14.28.5

तस्माद्ध्रस्वतरं नास्ति न ततोस्ति महत्तरम् ।
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥

14.28.6

न तत्राविश्यि शोचन्ति न प्रहृष्यन्ति च द्विजाः ।
न च बिभ्यति केभ्यश्चिन्नैभ्यो बिभ्यति केचन ॥

14.28.7

तस्मिन्वने सप्त महाद्रुमाश्च फलानि सप्तातिथयश्च सप्त ।
सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम् ॥

14.28.8

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वन्म् ॥

14.28.9

सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥

14.28.10

शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्

14.28.11

सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥

14.28.12

सुरभीण्येकवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥

14.28.13

बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च ।
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥

14.28.14

एको वह्निः सुमना ब्राह्मणोत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति ।
तेभ्यो वृक्षाःक सप्त फलन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः ॥

14.28.15

आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः ।
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥

14.28.16

प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम् ।
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ॥

14.28.17

येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति पुनर्भवः ।
ऊर्ध्वं चाधश्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥

14.28.18

सप्त स्त्रियस्तत्र चरन्ति सत्या- स्त्ववाङ्मुखा भानुमत्यो जनित्र्यः ।
ऊर्ध्वं रसानाददते प्रजाभ्यः सर्वान्यथा नित्यमनित्यता च ॥

14.28.19

तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च ।
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह ॥

14.28.20

यशो वर्चो भगश्चैव विजयः सिद्धतेजसः ।
एतमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥

14.28.21

ऋषयः पर्वताश्चैव सन्ति तत्र समासतः ।
नद्यश्च परितो वारि वहन्त्यो ब्रह्मिसम्भवम् ॥

14.28.22

नदीनां सङ्गमश्चैव वैताने समुपहरे ।
स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम् ॥

14.28.23

कृशाशाः सुव्रताः शान्तास्तपसा दग्धकिल्बिषाः ।
आत्मन्यात्मानमावेश्य ब्राह्मणास्तमुपासते ॥

14.28.24

शमिमप्यत्र शंसन्ति विद्यारण्यविदो जनाः ।
तदरण्यमभिप्रेत्य यथातत्वमजायत ॥

14.28.25

एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः ।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc