भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.27

14.27.1

एकः शास्ता न द्वितीयोस्ति शास्ता यो हृच्छयस्तमहमनु ब्रवीमि ।
तेनैव युक्तः प्रवणादिवोदकं यथा नियुक्तोस्मि तथा वहामि ॥

14.27.2

एको गुरुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि ।
तेनानुशिष्टा गुरुणा सदैव पुरा हता दानवाः सर्व एव ॥

14.27.3

एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि ।
तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयः पार्थ दिवि प्रभान्ति ॥

14.27.4

एकः श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि ।
तस्मिन्गुरौ गुरुवासं निरुष्यट शक्रो गतः सर्वलोकामरत्वम् ॥

14.27.5

एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि ।
तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगाः सर्व एव ॥

14.27.6

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥

14.27.7

देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम् ।
पर्यपृच्छन्नुपासीनं श्रेयोः नः प्रोच्यतामिति ॥

14.27.8

तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् ।
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥

14.27.9

तेषां प्रद्रवमाणानामुपदेशं च शृण्वताम् ।
सर्पाणां दंशने भावः प्रवृत्तः पूर्वमे तु ॥

14.27.10

असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः ।
दानं देवा व्यवसिता दममेव महर्षयः ॥

14.27.11

एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः ।
नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥

14.27.12

शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् ।
पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते ॥

14.27.13

तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते ।
गुरुर्बन्धुश्च शास्ता च द्वेष्टा च हृदि संश्रिताः ॥

14.27.14

पापेन विचरँल्लोके पापचारी भवत्ययम् ।
शुभेन विचरँल्लोके शुभचारी भवत्युत ॥

14.27.15

कामचारी तु कामेन य हन्द्रियसुखे रतः ।
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः ॥

14.27.16

अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः ।
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् ॥

14.27.17

ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः ।
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥

14.27.18

एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ।
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc