भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.112

14.112.1

चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज ।
चान्द्रायणविधिं पुण्यमाख्याहि भगवन्मम ॥
भगवानुवाच ।

14.112.2

शृणु पाण्डव तत्वेन सर्वपापप्रणाशनम् ।
पापिनो येन शुद्ध्यन्ति तत्ते वक्ष्यामि सर्वशः ॥

14.112.3

ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा चरितव्रतः ।
यथावत्कर्तुकामो वै तस्यैवं प्रथमा क्रिया ॥

14.112.4

शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितः ।
सशिरः कृष्णपक्षस्य ततः कुर्वीत वापनम् ॥

14.112.5

शुक्लवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम् ।
पालाशद्ण्डमादाय ब्रह्मचारिव्रते स्थितः ॥

14.112.6

कृतोपलासः पूर्वं तु शुक्लप्रतिपदि द्विजः । नदीसन्गमतीर्थेषु शुचौ देशे गृहेऽपि वा ।
गोमयेनोपलिप्रेऽथ स्थण्डिलेऽग्निं निधापयन् ॥

14.112.7

आघारावाज्यभागौ च प्रणवं व्याहृतीस्तथा ।
वारुणं चैव पञ्चैव हुत्वा सर्वान्यथाक्रमम् ॥

14.112.8

सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे ।
विश्वेभ्यो हि च देवेभ्यः सप्रजापतये तथा ॥

14.112.9

षडुक्त्वा जुहुयात्पश्चात्प्रायश्चित्ताहुतिं द्विजः ।
अतः समापयेदग्निं शान्तिं कृत्वाऽथ पौष्टिकिम् ॥

14.112.10

प्रणम्य् चाग्निं सोमं च भस्म दिग्ध्वा यथाविधि । नदीं गत्वा विशुद्धात्मा सोमाय वरुणाय च ।
आदित्याय नमस्कृत्वा ततः स्नायात्समाहितः ॥

14.112.11

उत्तीर्योदकमाचम्य चासीनः पूर्वतोमुखः ।
प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम् ॥

14.112.12

आचान्तस्त्वमिवीक्षेत ऊर्ध्वबाहुर्दिवाकरम् ।
कृताञ्जलिपुटः स्थित्वा कुर्याच्चैव प्रदक्षिणम् ॥

14.112.13

नारायणं वा रुद्रं वा ब्रह्मणमथवाऽपि च ।
वारुणं मन्त्रमूक्तं वा प्राग्भोजनमथापि वा ॥

14.112.14

वीरघ्नमृषभफं वाऽपि तथा चाप्यघमर्षणम् । गायत्रीं मम देवीं वा सावित्रीं वा जपेत्ततः ।
शतं वाऽष्टशतं वाऽपि सहस्रमथवा परम् ॥

14.112.15

ततो मध्याह्नकाले वै पायसं यावकं हि वा ।
पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः ॥

14.112.16

पात्रं तु सुसमादाय सौवर्णं राजतं तु वा । ताम्रं वा मृन्मयं वापि औदुम्बरमथापि वा ।

14.112.17

वृक्षाणां याज्ञियानं तु पर्णैरार्द्रैरकुत्सितैः ।
पुटकेन तु गुप्तेनि चरेद्भैक्षं समाहितः ॥

14.112.18

ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत् ।
गोदोहमात्रं तिष्ठित्तु वाग्यतः संयतेन्द्रियः ॥

14.112.19

न हसेन्न च वीक्षेत नाभिभाषेत वा स्त्रियम् ॥

14.112.20

दृष्ट्वा मूत्रं पुरीषं वा चण्डालं वा रजस्वलाम् ।
पतितं च तथा श्वानमादित्यमवलोकयेत् ॥

14.112.21

यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः ।
तं दृष्ट्वा पापकर्माणमादित्यमवलोकयेत् ॥

14.112.22

ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले । प्रक्षाल्य पादावाजान्वोर्हस्तावाकूर्परं पुनः ।
आचम्य वारिणा तेन वह्निं विप्रांश्च पूययेत् ॥

14.112.23

पञ्च सप्ताथवा कुर्याद्भागान्भैक्षस्य तस्य वै ।
तेषामन्यतमं पिण्डमादित्याय निवेदयेत् ॥

14.112.24

ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च ।
विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम् ॥

14.112.25

अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत् ॥

14.112.26

अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत् । अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात्प्राङ्मुखःक शुचिः ।

14.112.27

यथा च वर्धते सोमो ह्रसते च यथा पुनः ।
तथा पिण्डाश्च वर्धन्ते ह्रसन्ते च दिनेदिने ॥

14.112.28

त्रिकालं स्नानमस्योक्तं द्विकालमथवा सकृत् ।
ब्रह्मचारी सदा वाऽपि न च वस्त्रं प्रपीडयेत् ॥

14.112.29

स्थान न दिवसं तिष्ठेद्रात्रौ वीरासनं व्रजेत् ।
भवेत्स्थण्डिलशायी वाऽप्यथा वृक्षमूलिकः ॥

14.112.30

वल्कलं यदि वा क्षौमं शाणं कार्पासकं तथा ।
आच्छादनं भवेत्तस्य वस्त्रार्थं पाण्डुनन्दन ॥

14.112.31

एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान् ।
ब्राह्मणान्भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम् ॥

14.112.32

चान्द्रायणेन चीर्णेन यत्कृतं तेन दुष्कृतम् ।
तत्सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत् ॥

14.112.33

ब्रह्महत्या च गोहत्या सुवर्णस्तैन्यमेव च ।
भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः ॥

14.112.34

एवमन्यानि पापानि पातकीयानि यानि च ।
चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा ॥

14.112.35

अनिर्दशाया गोः क्षीरमौष्ठ्रमाविकमेव च ।
मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत् ॥

14.112.36

उपपातकिनश्चान्नं पतितान्नं तथैव च ।
शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत् ॥

14.112.37

आकाशस्थं तु हस्तस्थमधः स्रस्तं तथैव च ।
परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत् ॥

14.112.38

अथाग्रेधिषोरन्नं दिधिषूपपतेस्तता ।
परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च ॥

14.112.39

कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च ।
तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥

14.112.40

सुराऽसवं विषं सर्पिर्लाक्षा लवणमेव च ।
तैलं चापि च विक्रीणन्द्विजश्चान्द्रायणं चरेत् ॥

14.112.41

एकोद्दिष्टं तु यो भुङ्क्ते जनमध्यगतोऽपि यः ।
भिन्नभाण्डेषु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥

14.112.42

यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह ।
कन्यया सह यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥

14.112.43

उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे ।
दद्याद्वा यदि वा मोहाद्विजश्चान्द्रायणं चरेत् ॥

14.112.44

तुम्बकोशातकं चैव पलाण्डुं गृञ्जनं तथा ।
छत्राकं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ॥

14.112.45

द्विजः पर्युषितं चान्नं पक्वं परगृहागतम् ।
विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत् ॥

14.112.46

उदक्यया शुना वाऽपि चण्डालैर्वा द्विजोत्तमः ।
दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत् ॥

14.112.47

****तत्पुरा विशुद्ध्यर्थमृषिभिश्चरितं व्रतम् ।
पावनं सर्वभूतानां पुण्यं पाण्डवचोदितम् ॥

14.112.48

एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः ।
एतदद्य परं गुह्यं पवित्रं पापनाशनम् ॥

14.112.49

यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम् ॥
स दिवं याति पूतात्मा निर्मलादित्यसन्निभः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc