भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.111

14.111.1

स्वभक्तस्य हृषीकेश धर्माधर्ममजानतः ।
धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे ॥
भगवानुवाच ।

14.111.2

यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु । मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम् ।
आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम् ॥
युधिष्ठिर उवाच ।

14.111.3

कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम् ।
वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत् ॥

14.111.4

कस्मिन्काले कतं कस्य आधेयोऽग्निः सुरोत्तम ।
आहितस्य कथं वाऽपि सम्यगाचरणं भवेत् ॥

14.111.5

कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो ।
कतरस्मिन्हुते स्थाने कं व्रजेदाग्निहोत्रिकः ॥

14.111.6

अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ ।
कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम् ॥

14.111.7

विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम् ।
कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः ॥

14.111.8

दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः ।
किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव ॥

14.111.9

उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति । एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे ।
वक्तुमर्हसि सर्वज्ञ सर्वाधिकं नमोस्तु ते ॥
भगवानुवाच ।

14.111.10

शृणु राजन्महापुण्यमिदं धर्मामृतं परम् ।
यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः ॥

14.111.11

ब्र्हमित्वेनासृजं लोकानहमादौ महाद्युते ।
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया ॥

14.111.12

यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया ।
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः ॥

14.111.13

यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते ।
आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते ॥

14.111.14

यस्माच्च तु नयत्यग्रां गतिं विप्रान्सुपूजितः ।
यस्माच्च नयनाद्राजन्देवेष्वग्नीति कथ्यते ॥

14.111.15

तस्माच्च दुर्हुतः सोयमलं भक्षयितुं क्षणात् ।
यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः ॥

14.111.16

सर्वभूतात्मको राजन्देवानामेष वै मुखम् ।
प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः ॥

14.111.17

सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु ।
ततः प्रशमितः सोग्निरूपास्यैव मया पुरा ॥

14.111.18

सततोपासनात्सोयमौपासन इति स्मृतः ॥

14.111.19

आहुतिः सर्वमाख्याति तस्मिन्वसति सोनलः ।
आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः ॥

14.111.20

तस्मात्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः ।
सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः ॥

14.111.21

ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः ।
गता ह्यमरसायुज्यं ते ह्यग्न्यर्चनतत्पराः ॥

14.111.22

अपरे चावसथ्यं च पचनाग्निं प्रचक्षते ।
तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते ॥

14.111.23

स्थलीपाकं च गार्हं च सर्वे चास्मिन्प्रतिष्ठिताः ।
गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः ॥

14.111.24

औपासनं चावसथ्यं सभ्यं पचनपावकम् ।
आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च ॥

14.111.25

अग्निहोत्रप्रकारं च शृणु राजन्समाहितः ।
त्रयाणां गुणनामानां वह्नीनामुच्यते मया ॥

14.111.26

गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम् ।
गृहपत्यं तु यस्यासीत्तत्तस्माद्गार्हपत्यता ॥

14.111.27

यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत् ।
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः ॥

14.111.28

आहुतिः सर्वमाख्याति हव्यं वै वहनं स्मृतम् ।
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम् ॥

14.111.29

यं चाक्सथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः ।
आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते ॥

14.111.30

तेषां स भागतो वह्निः सभ्य इत्यभिधीयते ।
आवतथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः ॥

14.111.31

ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोभवत् ।
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः ॥

14.111.32

अहमाहवनीयोऽग्निराहोमाद्यस्य वै मुखे ।
सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप ॥

14.111.33

पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः ।
स्वर्गमाहवनीयोऽग्निरेवमग्नित्रयं स्मृतम् ॥

14.111.34

वृत्तश्च गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी ।
अर्धचन्द्राकृतिस्तं वै दक्षिणाग्निस्तथा भवेत् ॥

14.111.35

चतुरश्रं ततः स्वर्गं निर्मलं तु निरामयम् ।
तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप ॥

14.111.36

जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः ।
जुहोति दक्षिणं यस्तु स जयत्यन्तरिक्षकम् ॥

14.111.37

पृथिवीमन्तरिक्षं च दिवं ऋषिगणैः सह ।
जयत्याहवनीयं यो जुहुयाद्भक्तिमान्नरः ॥

14.111.38

आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते ।
तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः ॥

14.111.39

आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः ।
यस्मात्तस्मात्प्रवर्तन्ते ततो ह्याहवनीयता ॥

14.111.40

यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः ।
स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते ॥

14.111.41

इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत् ।
त्राणाद्वै यजमानस्य ह्यग्निहोत्रमिति स्मृतम् ॥

14.111.42

होइज्येषु विषादो वै विषादो दुःखमुच्यते ।
दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः ॥

14.111.43

आध्यात्मिकं चाधिदैवमाधिभौतिकमेव च ।
एतत्तापत्रयं प्रोक्तमात्मविद्भिर्नराधिप ॥

14.111.44

यस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः ।
तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ ॥

14.111.45

तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा ।
वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु ॥

14.111.46

अग्निहोत्रफला दारा दत्तभुक्तफलं धनम् ॥
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥

14.111.47

त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते ।
ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः ॥

14.111.48

वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप ।
वसन्तो ब्राह्मणो ज्ञेयो वेदयोनिः स उच्यते ॥

14.111.49

अग्न्याधेयं तु येनाथ वसन्ते क्रियतेऽनघ ।
तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते ॥

14.111.50

क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप । येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते ।
श्रीः प्रजाःक पशवश्चैव वित्तं तेजो बलं यशः ॥

14.111.51

शरदृतौ तु वैश्यस्य ह्याधानीयो हुताशनः ।
शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते ॥

14.111.52

शरद्याधानमेवं वै क्रियते येन पाण्डव ।
तस्यापि श्रीः प्रजाऽयुश्च पशवोऽर्थश्च वर्धते ॥

14.111.53

पशवः सर्व एवैते त्रिभिः सर्वैरलङ्कृताः ।
अग्निहोत्रा ह्यवर्तन्ते तैरेव ध्रियते जगत् ॥

14.111.54

ग्राम्यारण्याश्च पशवो पृक्षाश्चैव तृणानि च ।
फलान्योषधयश्चापि अग्निहोत्रकृते हविः ॥

14.111.55

रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा ।
काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन् ॥

14.111.56

आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम् ॥

14.111.57

छन्दः शिक्षा च कल्पश्च तथा व्याकरणानि च ।
शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम् ॥

14.111.58

इतिहासपुराणं च गाथाश्चोपनिषत्तथा ।
आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम् ॥

14.111.59

यच्चैतस्यां पृथिव्यां वै किञ्चिदस्ति चराचरम् ।
तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयम्भुवा ॥

14.111.60

अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ ।
युपेष्टिपशुबन्धानां सोमपानक्रियावताम् ॥

14.111.61

तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम् ।
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुराऽनघ ॥

14.111.62

ऋग्यजुः साममन्त्राणां श्लोकतत्वार्थचिन्तनात् ।
प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रल्पितम् ॥

14.111.63

वर्णाक्षरपदार्थानां सन्धिलिङ्गं प्रकीर्तितम् ।
नामधातुविवेकार्थं पुरा व्याकरणं स्मृतम् ॥

14.111.64

यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु ।
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम् ॥

14.111.65

यज्ञपात्रपवित्रार्थं द्रव्यसम्भारणाय च ।
सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम् ॥

14.111.66

नामधातुविकल्पानां तत्वार्थनियमाय च ।
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम् ॥

14.111.67

वेद्यर्थं पृथिवी सृष्टा सम्भारार्थ तथैव च ।
इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम् ॥

14.111.68

ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात् ।
मन्त्राणां विनियोगं च प्रोक्षितं श्रपणं तथा ॥

14.111.69

अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा ।
औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च ॥

14.111.70

विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा ।
त्रिकासमर्चनं चैव स्यानेषूपहृतं तथा ॥

14.111.71

देवताग्रहणं मोक्षं हविषां श्रपणं तथा । नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम् ।
ते यान्ति नरकं घोरं रौरवं तमसाऽवृतम् ॥

14.111.72

शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः ।
कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते ॥

14.111.73

वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा ।
तृणानीच्छन्ति बर्हिष्ट्वमोषध्यश्च हविष्यताम् । सोमत्वं च लताः सर्वा वेदित्वं च वसुन्धर ॥

14.111.74

यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया ।
तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव ॥

14.111.75

यूपास्तन्मन्त्रसंस्कारैर्दर्भाश्च पशवस्तथा ।
यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर ॥

14.111.76

यावत्कालं हि यज्वा वै स्वर्गलोके महीयते ।
तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः ॥

14.111.77

अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम् । वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून्द्विजाः ।
सद्यः शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि ॥

14.111.78

गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च ।
सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च ॥

14.111.79

दर्भाः संस्तरणार्तं तु रक्षसां रक्षणाय च ।
पजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः ॥

14.111.80

क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः ।
शुश्रूषार्थं त्रयाणां वै शूद्राः सृष्टाः स्वयम्भुवा ॥

14.111.81

एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम् ।
नावबुध्यन्ति ये चैव नरास्तु तमसा वृताः ॥

14.111.82

ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम् ।
रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते ॥

14.111.83

यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः ।
तैर्दत्तं सहुतं चेष्टं दत्तमध्यापितं भवेत् ॥

14.111.84

एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप ।
तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम् ॥

14.111.85

मया स्थापितमादित्ये लोकस्य सुकृतं हि तत् ।
धारयेद्यत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम् ॥

14.111.86

यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः ।
तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे ॥

14.111.87

स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान् । तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत्फलम् ।
समानरूपा देवानां तिष्ठन्त्याबूतसम्प्लवम् ॥

14.111.88

वृथाऽग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः ।
न तेऽग्निहोत्रिणां लोके मानसाऽपि व्रजन्ति ते ॥

14.111.89

वीरघ्रास्तु दुराचारा दरिद्रास्तु नराधमाः ।
विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु ॥

14.111.90

तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः ।
होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम् ॥

14.111.91

आत्मवन्नावमन्तव्यमग्निहोत्रं युधिष्टिर ।
न त्याज्यं क्षणिमप्येतदग्निहोत्रं युधिष्ठिर ॥

14.111.92

वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः ।
शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः ॥

14.111.93

पञ्चयज्ञपरा नित्यं लोभक्रोधविवर्जिताः ।
द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः ॥

14.111.94

तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः ।
मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर ॥

14.111.95

मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः ।
इह मानुष्यके लोके जायन्ते द्विजसत्तमाः ॥

14.111.96

बालाहिताग्रयो ये च शूद्रान्नाद्विरताः सदा । क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः ।
यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः ॥

14.111.97

आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः ।
ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम् ॥

14.111.98

मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः ।
तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः ॥

14.111.99

ऐश्वर्यगुणसम्पन्नाः क्रीडन्ति च यथासुखम् ।
इत्येषामाहिताग्नीनां विभूतिः पाण्डुनन्दन ॥

14.111.100

श्रुतिं केचिन्निन्दमानाः श्रुतिं दूष्यन्त्यबुद्धयः । प्रमाणं न च कुर्वन्ति ये यान्तीहापि दुर्गतिम् ।

14.111.101

प्रमाणमितिहासं च वेदान्कुर्वति ये द्विजाः ।
ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc