भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.70

13.70.1

जन्मनैव महाभागो ब्राह्मणो नाम जायते ।
नमस्यः सर्वभूतानामतिथिः प्रश्रिताग्रभुक् ॥

13.70.2

सर्वेषां सुहृदस्तात ब्राह्मणाः सुमनोमुकाः । सर्वानेते हनिष्यन्ति ब्राह्मणा जातमन्यवः ।
गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥

13.70.3

सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः ।
गीर्भिर्दारुणयुक्ताभिर्हन्युश्चैते ह्यपूजिताः ॥

13.70.4

अत्र गाथाः पुरा गीताः कीर्तयन्ति पुराविदः ।
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ॥

13.70.5

न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वायनं विधि ।
गुप्तो गोपायते ब्रह्मा श्रेयो वस्तेन शोभनम् ॥

13.70.6

स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति ।
प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ ॥

13.70.7

न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता ।
शौद्रं हि कुर्वतः कर्म ब्राह्मी श्रीरुपरुध्यते ॥

13.70.8

श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी ।
स्वाध्यायेनैव महात्म्यं विपुलं प्रतिपत्स्यथ ॥

13.70.9

हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः । अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्मयाऽनुकल्पिताः

13.70.10

श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया ।
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥

13.70.11

यच्चैव मानुषे लोके यच्च देवेषु किञ्चन ।
सर्वं वस्तपसा साध्यं ज्ञानेन नियमेन च ॥

13.70.12

युष्मत्सम्माननां प्रीतिं पावनैः क्षत्रिया भृशम् । अमुत्रेह समायान्ति वैश्यशूद्राधिकास्तथा ॥

13.70.13

अरक्षिताश्च युष्माभिर्विरुद्धा यान्ति विप्रवम् । युष्मत्तेजोधृता लोकास्तद्रक्ष्यथ जगत्त्रयम् ॥

13.70.14

इत्येवं ब्रह्मगीतास्ते समाख्याता मयाऽनघ ।
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥

13.70.15

भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः ।
दुरासदाश्च चण्डाश्च तपसा क्षिप्रकारिणः ॥

13.70.16

सन्त्येषां सिम्हसत्वाश्च व्याघ्रसत्वास्तथाऽपरे ।
वराहमृगसत्वाश्च गजसत्वास्तथाऽपरे ॥

13.70.17

सर्पस्पर्शसमाः केचित्तथाऽन्ये मकरस्पृशः ।
विभाष्य घातिनः केचित्तथा चक्षुर्हणोऽपरे ॥

13.70.18

सन्ति चाशीविषसमाः सन्ति मन्दास्तथाऽपरे ।
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥

13.70.19

मेकला द्राविडा लाटाः पौण्ड्राः कान्वशिरास्तथा ।
शौण्डिका दरदा दार्वाश्चोराः शबरबर्बराः ॥

13.70.20

किराता यवनाश्चैव तास्ताः क्षत्रियजातयः ।
वृषत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥

13.70.21

ब्राह्मणानां परिभवादसुराः सलिलेशयाः ।
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥

13.70.22

अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः ।
अवार्या सेतुना गङ्गा दुर्जया ब्राह्ममा भुवि ॥

13.70.23

न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा ।
ब्राह्मणा हि महात्मानो देवानामपि देवताः ॥

13.70.24

तान्पूजयस्व सततं दानेन परिचर्यया ।
यदीच्छसि महीं भोक्तमिमां सागरमेखलाम् ॥

13.70.25

प्रतिग्रहेण तेजो हि विप्राणा शाम्यतेऽनघ ।
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वया नृप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc