भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.34

13.34.1

स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत् ।
एतस्मिन्संशये राजन्यथावद्वक्तुमर्हसि ॥
भीष्म उवाच ।

13.34.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भङ्गास्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥

13.34.3

पुरा भङ्गास्वनो नाम राजर्षिरतिधार्मिकः ।
अपुत्रः पुरुषव्याघ्र पुत्रार्थं यज्ञमाहरत् ॥

13.34.4

अग्निष्टुतं स राजर्षिरिन्द्रद्विष्टं महाबलः ।
प्रायश्चित्तेषु मर्त्यानां पुत्रकामेषु चेष्यते ॥

13.34.5

इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः । अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः ।
न चैवास्यान्तरं राजन्स ददर्श महात्मनः ॥

13.34.6

कस्य चित्त्वथ कालस्य मृगयां गतवान्नृपः ।
इदमन्तरमित्येव शक्रो नृपममोहयत् ॥

13.34.7

एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः ।
न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ॥

13.34.8

इतश्चेतश्च धावन्वै श्रमतृष्णार्दितो नृप ।
सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ॥

13.34.9

सोऽवगाह्य सरस्तात पाययामास वाजिनम् ॥

13.34.10

अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः ।
अवगाह्य ततः स्नातस्तत्र स्त्रीत्वमवाप्तवान् ॥

13.34.11

आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः ।
चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥

13.34.12

आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् ।
इष्टेनाग्निष्टुता चापि पुत्राणां शतमौरसम् ॥

13.34.13

जातं महाबलानां मे तान्प्रवक्ष्यामि किन्नवहम् ।
दारेषु चात्मकीयेषु पौरजानपदेषु च ॥

13.34.14

मृदुत्वं च तनुत्वं च पराधीनत्वमेव च । हासभावादि लावण्यं स्त्रीगुणाद्वा कुतूहलम् ।
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ॥

13.34.15

व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ॥

13.34.16

पौरुषं विप्रनष्टं स्त्रीत्वं केनापि मेऽभवत् ।
स्त्रीभावात्पुनरश्वं तं कथमारोढुमुत्सहे ॥

13.34.17

महता त्वथ खेदेन आरुह्याश्वं नराधिपः । पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तमः ।

13.34.18

पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते ।
किन्न्विदं त्विति विज्ञाय विस्मयं परमं गताः ॥

13.34.19

अथोवाच स राजर्षिः स्त्रीभूतो वदतांवरः । मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् ।
उद्भान्तः प्राविशं घोरामटवीं दैवमोहितः ॥

13.34.20

अटव्यां च सुघोंरायां तृष्णार्तो नष्टचेतनः ।
सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥

13.34.21

तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः । अतृप्त एव पुत्राणां दाराणां च धनस्य च ॥

13.34.22

नामगोत्राणि चाभाव्य दाराणां मन्त्रिणां तथा । आह पुत्रांस्ततः सोऽथ स्त्रीभूतः पार्तिवोत्तमः ।
सम्प्रीत्या भुज्यतांराज्यं वनं यास्यामि पुत्रकाः ॥

13.34.23

स पुत्राणां शतं राजा अभिषिच्य वनं गतः ।
गत्वा चैवाश्रमं सा तु तापसं प्रत्यपद्यत ॥

13.34.24

तापसेनास्य पुत्राणामाश्रमेष्वभवच्छतम् ।
अथ साऽदाय तान्सर्वान्पूर्वपुत्रानभाषत ॥

13.34.25

पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ।
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ॥

13.34.26

सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ॥

13.34.27

तान्दृष्ट्वा भातृभावेन भुञ्जानान्राज्यमुत्तमम् । चिन्तयामास देवेन्द्रो मन्युनाऽथ परिप्लुतः ।
उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥

13.34.28

ततो ब्राह्मणरुपेण देवराजः शतक्रतुः ।
भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ॥

13.34.29

भ्रातृणां नास्ति सौभ्रात्रं येऽप्येकस्य पितः सुताः । कश्यपस्य सुराश्चैव असुराश्व सुतास्तथा ।

13.34.30

राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ॥ यूयं भङ्गास्वनापत्यास्तापसस्येतरे सुताः ।

13.34.31

युष्माकं भेदितास्ते तु युद्धेऽन्योन्यमपातयन् ।
तच्छ्रुत्वा तापसी चापि सन्तप्ता प्ररुरोद ह ॥

13.34.32

ब्राह्मणच्छद्मनाऽभ्येत्य तामिन्द्रोऽथान्वपृच्छत ।
केन दुःखेन सन्तप्ता रोदिषि त्वं वरानने ॥

13.34.33

ब्राह्म्णं तं ततो दृष्ट्वा सा स्त्री करणमब्रवीत् ।
पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ॥

13.34.34

अहं राजाऽभव विप्र तत्र पूर्वं शतं मम ।
समुत्पन्नं सुरूपाणां पुत्राणां ब्राह्मणोत्तम ॥

13.34.35

कदाचिन्मृगयां यात उद्धान्तो गहने वने ।
अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ॥

13.34.36

पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥

13.34.37

स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना ।
आश्रमे जनितं ब्रह्मन्नीतं तन्नगरं मया ॥

13.34.38

तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज ।
एतच्छोचाम्यहं ब्रह्मन्दैवेन समभिप्लुता ॥

13.34.39

इन्द्रस्तां दुःशितां दृष्ट्वा अब्रवीत्परुषं वचः ॥

13.34.40

पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् । इन्द्रद्विष्टेन यजता मामनाहूय धिष्ठितम् ।
इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते पातितं मया ॥

13.34.41

इन्द्रं दृष्ट्वा तु राजर्षिः पादयोः शिरसा गतः । प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः ।
इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ॥

13.34.42

प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ ॥

13.34.43

पुत्रास्ते कतमे राजञ्जीवन्त्वेतत्प्रचक्ष्व मे ।
स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ॥

13.34.44

तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः ।
स्त्रीभूतस्य हि ये पुत्रास्ते मे जीवन्तु वासव ॥

13.34.45

इन्द्रस्तु विस्मितो दृष्ट्वा स्त्रियं पप्रच्छ तां पुनः ।
पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥

13.34.46

स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् ।
कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥
स्त्र्युवाच ।

13.34.47

स्त्रियास्त्वभ्यधिकः स्नेहो न तता पुरुषस्य वै ।
तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥
भीष्म उवाच ।

13.34.48

एवमुक्तस्ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह ।
सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥

13.34.49

वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत ।
पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसे ॥
स्त्र्युवाच ।

13.34.50

स्त्रीत्वमेव वृणे शक्र पुंस्त्वं नेच्छामि वासव ।
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह ॥

13.34.51

पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ।
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः ॥

13.34.52

स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा ।
एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ॥

13.34.53

रमाभि चाधिकं स्त्रीत्वे सत्यं वै देवसत्तम ।
स्त्रीभावेन हि तुष्यामि गम्यतां त्रिदशाधिप ॥

13.34.54

एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः ।
एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc