भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.35

13.35.1

किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना ।
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् ॥
भीष्म उवाच ।

13.35.2

देवे नारायणे भक्तिः शन्करे साधुपूजया । ध्यानेनाथ जपः कार्यः स्वधर्मैः शुचिचेतसा ॥

13.35.3

कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् ।
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ॥

13.35.4

प्राणातिपातः स्तैन्यं च परदाराभिमर्शनम् ।
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥

13.35.5

असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा ।
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥

13.35.6

अनभिध्या परखेषु सर्वसत्वेषु सौहृदम् ।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥

13.35.7

तस्माद्वाक्वायमनसा नाचरेदशुभं नरः । शुभान्येवाचरँल्लोके भक्तो नारायणस्य हि ।
तस्यैव तु पदं सूक्ष्मं प्रसादादश्नुयात्परम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc