भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.32

13.32.1

कीदृशे पुरुषे तात स्त्रीषु भरतर्षभ ।
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.32.2

अत्र ते वर्णयिष्यामि यथावृत्तं यथाश्रुतम् ।
रुक्मिणी देवकीपुत्रसन्निधौ पर्यपृच्छत ॥

13.32.3

नारायणस्याङ्कगतां ज्वलन्तीं दृष्ट्वा श्रियं पद्मसमानवक्त्राम् ।

13.32.4

कौतूहलाद्विस्मितचारुनेत्रा पप्रच्छ माता मकरध्वजस्यष ॥

13.32.4

कानीह भूतान्युपसेवसे त्वं सन्तिष्ठसे कानि च सेवसे त्वम् ।
तानि त्रिलोकेश्वरभूतकान्ते तत्त्वेन मे ब्रूहि महर्षिकन्ये ॥

13.32.5

एवं तदा श्रीराभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य ।
उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना ॥
श्रीरुवाच ।

13.32.6

वसामि नित्यं सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने ।
अक्रोधने देवपरे कृतज्ञे जितेन्द्रिये नित्यमुदीर्णसत्वे ॥

13.32.7

नाकर्मशीले पुरुषे वसामि न नास्तिके साङ्करिके कृतघ्ने ।
न भिन्नवृत्ते न नृशंसवृत्ते न चाविनीते न गुरुष्वसूयके ॥

13.32.8

ये चाल्पतेजोबलसत्त्वमानाः क्लिश्यन्ति कुप्यन्ति च यत्रतत्र ।
न चैव तिष्ठामि तथाविधेषु नरेषु सङ्गुप्तमनोरथेषु ॥

13.32.9

यश्चात्मनि प्रार्थयते न किञ्चि- द्यश्च स्वभावोपहतान्तरात्मा ।
द्यश्च स्वभावोपहतान्तरात्मा । नरेषु नाहं निवसामि स्म्यक् ॥

13.32.10

वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु ।
वृद्धसेविषु दान्तेषु सत्वज्ञेषु महात्मसु ॥

13.32.11

अवन्ध्यकालेषु सदा दानशौचरतषु च ।
ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु च ॥

13.32.12

स्त्रीषु कान्तासु शान्तासु देवद्विजपरासु च ।
विशुद्धगृहभाण्डासु गोधान्याभिरतासु च ॥

13.32.13

स्वधर्मशीलेषु च धर्मवित्सु वृद्धोपसेवानिरते च दान्ते ।
कृतात्मनि क्षान्तिपरे समर्थे क्षान्तासु दान्तासु तथाऽबलासु । सत्यस्वभावार्जवसंयुतासु वसागि देवद्विजपूजिकासु ॥

13.32.14

प्रकीर्णभाण्डामनवेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलवादिनीम् ।

13.32.15

लोलामदक्षामवलेपिनीं च व्यपेतशौचां कलहप्रियां च ।
निद्राभिभूतां सततं शयाना- मेवंविधां स्त्रीं परिवर्जयामि ॥

13.32.16

सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु गुणान्वितासु ।
वसामि नारीषु पतिव्रतासु कल्याणशीलासु विभूषितासु ॥

13.32.17

यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु ।
वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु ॥

13.32.18

गजेषु गोष्ठेषु तथाऽसनेषु सरःसु फुल्लोत्पलपङ्कजेषु ।
नदीषु हंसस्वननादितासु क्रौञ्चावघुष्टस्वरशोभितासु ॥

13.32.19

विकीर्णकूलद्रुमराजितासु तपस्विसिद्धद्विजसेवितासु ।
वसामि नित्यं सुबहूदकासु सिम्हैर्गजैश्चाकुलितोदकासु ॥

13.32.20

मत्ते गजे गोवृषभे नरेन्द्रे सिम्हासने सत्पुरुषेषु नित्यम् ॥

13.32.21

यस्मिञ्चनो हव्यभुजं जुहोति गोब्राह्मणं चार्चति देवताश्च
काले च पुष्पैर्बलयः क्रियन्ते तस्मिन्गृहे नित्यमुपैमि वासम् ॥

13.32.22

स्वाध्यायनित्येषु सदा द्विजेषु क्षत्रे च धर्माभिरते सदैव ।
वैश्ये च कृष्याभिरते वसामि शूद्रे च शुश्रूषणनित्ययुक्ते ॥

13.32.23

नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता ।
तस्मिन्हि धर्मः सुमहान्निविष्टो ब्रह्मिण्यता चात्र तथा प्रियत्वम् ॥

13.32.24

नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम् ।
भावेन यस्मिन्निवसामि पुंसि स वर्धते धर्मयशोर्थकामैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc