भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.31

13.31.1

मित्रसौहार्दयोगेन उपदेशं करोति यः ।
जात्याऽधरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥

13.31.2

एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह ।
सूक्ष्मा गतिर्हि धर्मस्यि यत्र मुह्यन्ति मानवाः ॥
भीष्म उवाच ।

13.31.3

अत्र ते वर्तयिष्यामि शृणु राजन्यथाक्रमम् । मदुक्तं वचनं राजन्यथान्यायं यथागमम् ।
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा पुरा ॥

13.31.4

उपदेशो न कर्तव्यो जातिहीनस्य कस्य चित् ।
उपदेशे महान्दोष उपाध्यायस्य भाष्यते ॥

13.31.5

नाध्यापयेच्छूद्रमिह तथा नैव च याजयेत् । निदर्शनमिदं राजञ्शृणु मे भरतर्षभ ॥

13.31.6

दुरुक्तवचने राजन्यथापूर्वं युधिष्ठिर ।
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥

13.31.7

तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् । नानागुल्मलताकीर्णं मृगद्विजनिषेवितम् ।
सिद्धचारणसन्घुष्टं रम्यं पुष्पितकाननम् ॥

13.31.8

व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ।
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः ॥

13.31.9

नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः ।
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥

13.31.10

वेदाध्ययनघोषैश्च नादितं भरतर्षभ ।
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥

13.31.11

तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः ।
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥

13.31.12

तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ।
विविधां वहतो दीक्षां सम्प्राहृष्यत भारत ॥

13.31.13

अथास्य बुद्धिरभावत्तापस्ये भरतर्षभ ।
ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत ॥

13.31.14

भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ ।
तस्मादभिगतं त्वं मां प्रव्राजयितुमर्हसि ॥

13.31.15

वर्णावरोऽहं भगवञ्शूद्रो जात्याऽस्मि सत्तम ।
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥
कुलपतिरुवाच ।

13.31.16

न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् ।
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥

13.31.17

शुश्रूषया पराँल्लोकानवाप्स्यसि न संशयः ॥
भीष्म उवाच ।

13.31.18

एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप ।
कथमत्र मया कार्यं श्रुद्धा धर्मपरा च मे ॥

13.31.19

विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ।
गत्वाऽश्रमपदाद्दूरमुटजं कृतवांस्तु सः ॥

13.31.20

तत्र वेदीं च भूमिं च देवतायतनानि च ।
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवन्मुनिः ॥

13.31.21

अभिषेकांश्च नियमान्देवतायतनेषु च ।
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥

13.31.22

सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः ।
नित्यं सन्निहिताभिस्तु ओषधीभिः फलैस्तथा ॥

13.31.23

अतिथीन्पूजयामास यथावत्समुपागतान् ।
एवं हि सुमहान्कालो व्यत्यक्रामत तस्य वै ॥

13.31.24

अथास्य मुनिरागच्चत्सङ्गत्या वै तमाश्रमम् ।
सम्पूज्य स्वागतेनर्षिं विधिवत्समतोषयत् ॥

13.31.25

अनूकूलाः कथाः कृत्वा यथागतमपृच्छत ।
ऋषिः परमतेजस्वी धर्मात्मा संशितव्रतः ॥

13.31.26

एवं सुबहुशस्तस्य शूद्रस्य भरतर्षभ ।
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभः ॥

13.31.27

अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ ।
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ॥

13.31.28

बाढमित्येव तं विप्र उवाच भरतर्षभ ।
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ॥

13.31.29

अथ दर्भाश्च वन्यांश्च ओषधीर्भरतर्षभ ।
पवित्रमासनं चैव बृसीं चि समुपानयत् ॥

13.31.30

अथ दक्षिणमावृत्य बृसीं चरमशैर्षिकीम् ।
कृतामन्यायतो दृष्ट्वा तं शूद्रमृषिरब्रवीत् ॥

13.31.31

कुरुष्वैतां पूर्वशीर्षां भवांश्चोदङ्मुखः शुचिः ।
स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् ॥

13.31.32

यथोपदिष्टं मेधावी दर्भार्घादि यथातथम् ।
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥

13.31.33

ऋषिणा पितृकार्येषु सदा धर्मपथे स्थितः ।
पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥

13.31.34

अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः । वने पञ्चत्वमगमत्सुकृतेन च तेन वै ।
अजायत महाराज वंशे स च महाद्युतिः ॥

13.31.35

तथैव स ऋषिस्तात कालधर्ममवाप ह ।
पुरोहितकुले विप्रः स जातोऽस्य वशानुगः ॥

13.31.36

एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा ।
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ॥

13.31.37

अथर्ववेदे वेदे च बभूवर्षिः सुनिष्ठितः । कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः ।
साङ्ख्ये चैव परा प्रीतिस्तस्य चैवं व्यवर्धत ॥

13.31.38

पितर्युपरते चापि कृतशौचस्तु पार्थिवः ।
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ॥

13.31.39

अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥

13.31.40

स तं पुरोधाय सुखमवसद्भरतर्षभः ।
राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥

13.31.41

पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् । उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् ।
एवं स बहुशो राजन्पुरोधसमुपाहसत् ॥

13.31.42

लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् ।
उत्स्मयन्तं च सततं दृष्ट्वा तं मन्युमानभूत् ॥

13.31.43

अथ शून्ये पुरोधास्तु सह राज्ञा समागतः ।
कथाभिरनुकूलाभी राजानं चाभ्योरचयत् ॥

13.31.44

ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ ।
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥
राजोवाच ।

13.31.45

वराणां ते शतं दद्यां किं बतैकं द्विजोत्तम ।
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥
पुरोहित उवाच ।

13.31.46

एकं वै वरमिच्छामि यदि तुष्टिसि पार्थिव ।
प्रतिजानीहि तावत्त्वं सत्यं यद्वद नानृतम् ॥
भीष्म उवाचि ।

13.31.47

बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर ।
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥
पुरोहित उवाच ।

13.31.48

पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् ।
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य मां ॥

13.31.49

सव्रीडं वै भवति हि मनो मे हसता त्वया ।
कामया शापितो राजन्नान्यथावक्तुमर्हसि ॥

13.31.50

भाव्यं हि कारणेनात्र न ते हास्यमकारणम् ।
कौतूहलं मे सुभृशं तत्त्वेन कथमस्व मे ॥
राजोवाच ।

13.31.51

एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि ।
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥

13.31.52

पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम ।
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ॥

13.31.53

शुद्रोऽहमभवं पूर्वं तपसे कृतनिश्चयः ।
ऋषिरुग्रतपास्त्वं च तदाऽभूर्द्विजसत्तम ॥

13.31.54

प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना ।
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥

13.31.55

वृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ।
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ॥

13.31.56

अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् ।
मत्कृतस्योपदेशस्य त्वयाऽवाप्तमिदं फलम् ॥

13.31.57

एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम ।
न त्वां परिभवन्ब्रह्मनप्रहसामि गुरुर्भवान् ॥

13.31.58

विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः ।
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥

13.31.59

एवं तवोग्रं हि तप उपदेशेन नाशितम् ।
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ॥

13.31.60

इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज ।
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥
भीष्म उवाच ।

13.31.61

ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः ।
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥

13.31.62

कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमैः ।
तीर्थानि चापि गत्वा वै दानानि विविधानि च ॥

13.31.63

दत्त्वा गाश्चैव विप्रेभ्यः पूतात्माऽभवदात्मवान् ।
तमेव चाश्रमं गत्वा चचार विपुलं तपः ॥

13.31.64

ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम ।
सम्मतस्चाभवत्तेषामाश्रमे तन्निवासिनाम् ॥

13.31.65

एवं प्राप्तो महत्कृच्छ्रमृषिः सन्नृपसत्तम ।
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥

13.31.66

वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप ।
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ॥

13.31.67

नेषितव्यं सदा वाचा द्विजेन नृपसत्तम । न च प्रवक्तव्यमिह किञ्चिद्वर्णावरे नरे ॥

13.31.68

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ॥

13.31.69

तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किञ्चिदग्रतः ।
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥

13.31.70

तस्मान्मौनेन मुनयो दीक्षां कुर्वन्ति चादृताः ।
दुरुक्तस्य भयाद्राजन्नाभाषन्ते च किञ्चन ॥

13.31.71

धार्मिका गुणसम्पन्नाः सत्यार्जवसमन्विताः ।
दुरुक्तवाचाभिहितैः प्राप्नुवन्तीह दुष्कृतम् ॥

13.31.72

उपदेशो न कर्तव्यो ह्यज्ञात्वा यस्यकस्य चित् ।
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ॥

13.31.73

विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता ।
सत्यानृतेन हि कृत उपदेशो हिनस्ति हि ॥

13.31.74

वक्तव्यमिह पृष्टेन विनिश्चयविपर्ययम् ।
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ॥

13.31.75

एतत्ते सर्वमाख्यातमुपदेशकृते मया ।
महान्क्लेशो हि भवति तस्मान्नोपदिशेदिह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc