भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.24

13.24.1

ततः कद्रूर्हसन्ती च विनतां धर्मचारिणीम् ।
दासीवत्प्रेषयामास सा च सर्वं चकार तत् ॥

13.24.2

न विवर्णा न सन्क्षुब्धा न च क्रुद्धा न दुःखिता ।
प्रेष्यकर्म चकारास्या विनता कमलेक्षणा ॥

13.24.3

इमा दिशश्चतस्रोऽस्याः प्रेष्यभावेन वर्तिताः ।
अथ स्म वैनतेयं वै बलदर्पौ समीयतुः ॥

13.24.4

तं दर्पवशमापन्नं परिधावन्तमन्तिकात् ।
ददर्श नारदो राजन्देवर्षिर्दर्पसंयुतम् ॥

13.24.5

तमब्रवीच्च देवर्षिर्नारदः प्रहसन्निव ।
किं दर्पवशमापन्नो न वै पश्यसि मातरम् ॥

13.24.6

बलेन दृप्तः सततमहम्मानकृतः सदा ।
दासीं पन्नगराजस्य मातुरन्तर्गृहे सतीम् ॥

13.24.7

तमब्रवीद्वैनतेयः कर्म किं तन्महामते ।
जनयित्री मयि सुते जाता दासी तपस्विनी ॥

13.24.8

अथाब्रवीदृषिर्वाक्यं दीव्यती विजिता खग ।
निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह ॥
गरुड उवाच ।

13.24.9

कथं जिता निकृत्या सा भगवञ्जननी मम ।
ब्रूहि तन्मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम् ॥

13.24.10

ततस्तस्य यथावृत्तं सर्वं तन्नारदस्तदा ।
आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः ॥

13.24.11

तच्छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत् ।
जगर्हे पन्नगान्सर्वान्मात्रा सह परन्तपः ॥

13.24.12

ततस्तु रोषाद्दुःखाच्च तूर्णमुत्पत्यक पक्षिराट् ।
जगाम यत्र माताऽस्य कृच्छ्रे महति वर्तते ॥

13.24.13

तत्रापश्यत्ततो दीनां जटिलां मलिनां कृशाम् ।
तोयदेन प्रतिच्छन्नां सूर्याभामिव मातरम् ॥

13.24.14

तस्य दुःखाच्च रोषाच्च नेत्राभ्यामश्रु चास्रवत् ।
प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः ॥

13.24.15

अनुक्त्वा मातरं किञ्चित्पतत्रिवरपुङ्गवः ।
कद्रूमेव स धर्मात्मा वचनं प्रत्यभाषत ॥

13.24.16

यदि धर्मेण मे माता जिता यद्यप्यधर्मतः ।
ज्येष्ठा त्वमसि मे माता धर्मः सर्वः स मे मतः ॥

13.24.17

इयं तु मे स्यात्कृपणा मयि पुत्रेऽम्ब दुःखिता ।
अनुजानीहि तां साधु मत्कृते धर्मदर्शिनि ॥

13.24.18

कद्रूः श्रुत्वास्य तद्वाक्यं वैनतेयस्य धीमतः ।
उवाच वाक्यं दुष्प्रज्ञा परीता दुःखमूर्च्छिता ॥

13.24.19

नाहं तव न ते मातुर्वैनतेय कथञ्चन ।
कुर्यां प्रियमनिष्टात्मा मां ब्रवीषि खग द्विजा ॥

13.24.20

तां तदा ब्रुवतीं वाक्यमनिष्टं क्रूरभाषिणीम् ।
दारुणां सूनृताभिस्तामनुनेतुं प्रचक्रमे ॥
गरुड रुवाच ।

13.24.21

ज्येष्ठा त्वमसि कल्याणि मातुर्मे भामिनि प्रिया । सोदर्यी मम चासि त्वं ज्येष्ठा माता न संशयः ॥ 7--24-22x कद्रूरुवाच ।

13.24.22

विहङ्गम यथाकामं गच्छ कामगम द्विज ।
सूनृताभिस्त्वया माता नादासी शक्यमण्डज ॥

13.24.23

अमृतं यद्याहरेस्त्वं विहङ्गं जननीं तव ।
अदासीं मम पश्येमां वैनतेय न संशयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc