भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.23

13.23.1

श्रुत्वा तु वचनं मातुः क्रुद्धायास्ते भुजङ्गमाः ।
कृच्छ्रेणैवान्वमोदन्त केचिद्धित्वा दिशो गताः ॥

13.23.2

ये प्रतस्थुर्दिशस्तत्र क्रुद्धा तानशपद्भृशम् ।
भुजङ्गमानां माताऽसौ कद्रूर्वैरकरी तदा ॥

13.23.3

उत्पत्स्यति हि राजन्यः पाण्डवो जनमेजयः ।
चतुर्थो धन्विनां श्रेष्ठात्कुन्तीपुत्राद्धनञ्जयात् ॥

13.23.4

स सर्पसत्रमाहर्ता क्रुद्धः कुरुकुलोद्वहः ।
तस्मिन्सत्रेऽग्निना युष्मान्पञ्चत्वमुपनेष्यति ॥

13.23.5

एवं क्रुद्धाऽशपन्माता पन्नगान्धर्मचारिणः ।
गुरोः परित्यागकृतं नैतदन्यद्भविष्यति ॥

13.23.6

एवं शप्ता दिशः प्राप्ताः पन्नगा धर्मचारिणः ।
विहाय मातरं क्रुद्धा गता वैरकरीं तदा ॥

13.23.7

तत्र ये वृजिनं तस्या अनापन्ना भुजङ्गमाः ।
ते तस्य वाजिनो वाला बभूवुरसितप्रभाः ॥

13.23.8

तान्दृष्ट्वा वालधिस्थांश्च पुत्रान्कद्रूरथाब्रवीत् ।
विनतामथ संहृष्टा हयोसौ दृश्यतामिति ॥

13.23.9

एकवर्णो न वा भद्रे पणो नौ सुव्यवस्थितः ।
उतकादुत्तरन्तं तं हयं चैव च भामिनि ॥

13.23.10

सा त्ववक्रमतिर्देवी विनता जिह्मगामिनीम् ।
अब्रवीद्भगिनीं किञ्चिद्विहसन्तीव भारत ॥

13.23.11

हन्त पश्याव गच्छावः सुकृतो नौ पणः शुभे ।
दासी वा ते भविष्यामि त्वं वा दासी भविष्यसि ॥

13.23.12

एवं स्थिरं पणं कृत्वा हयं ते तं ददर्शतुः ।
कृत्वा साक्षिणमात्मानं भगिन्यौ कुरुसत्तम ॥

13.23.13

सा दृष्ट्वैव हयं मन्दं विनता शोककर्शिता ।
श्वेतं चन्द्रांशुवालं तं कालवालं मनोजवम् ॥

13.23.14

तत्र सा व्रीलिता वाक्यं विनता साश्रुबिन्दुका ।
उवाच कालवालोऽयं तुरगो विजितं त्वया ॥

13.23.15

दासी मां प्रेषय स्वार्थे यथा कामवशां शुभे ।
दास्यश्च कामकारा हि भर्तृणां नात्र संशयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc