भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.237

13.237.1

भगवन्देवदेवेश विशिष्टं यज्ञमुच्यते ।
लौकिकं वैदिकं चैव तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.237.2

देवतानां तु पूजा या यज्ञेष्वेव समाहिता ।
यज्ञा वेदेष्वधीताश्च वेदा ब्राह्मणसंयुताः ॥

13.237.3

इदं तु सकलं दिव्यं दिवि वा भुवि वा प्रिये ।
यज्ञार्थं विद्धि तत्सृष्टं लोकानां हितकाम्यया ॥

13.237.4

एवं विज्ञाय तत्कर्ता सदारः सततं द्विजः ।
प्रेत्यभावे लभेल्लोकान्ब्रह्मकर्मसमाधिना ॥

13.237.5

ब्राह्मणेष्वेव तद्ब्रह्म नित्यं देवि समाहितम् ।
तस्माद्विप्रैर्यथाशास्त्रं विधिदृष्टेन कर्मणा ॥

13.237.6

यज्ञकर्मि कृतं सर्वं देवता अभितर्पयेत् ।
ब्राह्मणाः क्षत्रियाश्चैव यज्ञार्थं प्रायशः स्मृताः ॥

13.237.7

अग्निष्टोमादिभिर्यज्ञैर्वेदेषु परिकल्पितैः । सुशुद्धैर्यजमानैस्च ऋत्विग्भिश्च यथाविधिः ।
शुद्धैर्द्रव्योपकरणैर्यष्टव्यमिति निश्चयः ॥

13.237.8

तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् ।
तुष्टेषु सर्वदेवेषु यज्वा यज्ञफलं लभेत् ॥

13.237.9

देवाः सन्तोषिता यज्ञैर्लोकान्संवर्धयन्त्युत ।
उभयोर्लोकयोर्भूतिर्देवि यज्ञे प्रदृश्यते ॥

13.237.10

तस्माद्यज्वा दिवं गत्वा अमरैः सह मोदते ।
नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः ॥

13.237.11

सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः ।
एषा यज्ञकृता पूजा लौकिकीमपरां शृणु ॥

13.237.12

देवसत्कारमुद्दिश्य क्रियते लौकिकोत्सवः ॥

13.237.13

देवगोष्ठेऽधिसंस्कृत्य चोत्सवं यः करोति वै । यागान्देवोपहारांश्च शुचिर्भूत्वा यथाविधि ।
देवान्सन्तोषयित्वा स देवि धर्ममवाप्नुयात् ॥

13.237.14

गन्धमाल्यैश्च विविधैः परमान्नेन धूपनैः ।
बह्वीभिः स्तुतिभिश्चैव स्तुवद्भिः प्रयतैर्नरैः ॥

13.237.15

नृत्तैर्वाद्यैश्च गान्धर्वैरन्यैर्दृष्टिविलोभनैः ।
देवसत्कारमुद्दिश्य कुर्वते ये नरा भुवि ॥

13.237.16

तेषां भक्तिकृतेनैव सत्कारेणैव पूजिताः ।
तेनैव तोषं संयान्ति देवि देवास्त्रिविष्टपे ॥

13.237.17

मानुषैश्चोपकारैर्वा शुचिभिः सत्परायणैः ।
ब्रह्मचर्यपरैरेतत्कृतं धर्मफलं लभेत् ॥

13.237.18

केवलैः स्तुतिभिर्देवि गन्धमाल्यसमाहितैः । प्रयतैः शुद्धगात्रैस्तु शुद्धदेशे सुपूजिताः ।
सन्तोषं यान्ति ते देवा भक्तैः सम्पूजितास्तथा ॥

13.237.19

देवान्सन्तोषयित्वैव देवि धर्ममवाप्नुयात् ॥
उमोवाच ।

13.237.20

त्रिविष्टपस्था वै भूमौ देवा मानुषचेष्टितम् ।
कथं ज्ञास्यन्ति विधिवत्तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.237.21

तदहं तेप्रवक्ष्यामि यथा तैर्विद्यते प्रिये ।
प्राणिनां तु शरीरेषु अन्तरात्मा व्यवस्थितः ॥

13.237.22

आत्मानं परमं देवमिति विद्धि शुभेक्षणे ।
आत्मा मनोव्यवस्थानात्सर्वं वेत्ति शुभाशुभम् ॥

13.237.23

आत्मैव देवास्तद्विद्युरव्यग्रमनसा कृतम् ।
सतां मनोव्यवस्थानाच्छुभं भवति वै नृणाम् ॥

13.237.24

तस्माद्देवाऽभिसम्पूज्या ब्राह्मणानां तथैव च ।
यज्ञाश्च धर्मकार्याणि गुरुपूजा च शोभने ॥

13.237.25

शुद्धगात्रैर्व्रतयुतैस्तन्मयैस्तत्परायणैः ।
एवं व्यवस्थितैर्नित्यं कर्तव्यमिति निश्चयः ॥

13.237.26

एवं कृत्वा शुभाकाङ्क्षी परत्रेह च मोदते । अन्यथा मन आविश्य कृतं न फलति प्रिये ।
ऋतेऽपि तु मनो देवि अशुभं फलति ध्रुवम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc