भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.236

13.236.1

भगवन्देवदेवेश कथं देयं तिलान्वितम् ।
तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च ॥
महेश्वर उवाच ।

13.236.2

तिलकल्पविधिं देवि तन्मे शृणु समाहिता ॥

13.236.3

समृद्धैरसमृद्धैर्वा तिला देया विशेषतः ।
तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः ॥

13.236.4

न्यायतस्तु तिलाञ्शुद्धान्संहृत्याथ स्वशक्तिनः । तिलराशिं पुनः कुर्यात्पर्वाताभं सुरस्नकम् ।
महान्तं यदि वा स्तोकं नानाद्रव्यसमन्वितम् ॥

13.236.5

सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः । अलङ्कृत्य यथायोगं सपताकं सवेदिकम् ।
सभूषणं सवस्त्रं च शयनासनसम्मितम् ॥

13.236.6

प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः ।
भोजयित्वा च विधिवद्ब्राह्म्णानर्हतो बहून् ॥

13.236.7

स्वयं कृतोपवासश्च वृत्तशौचसमन्वितः ।
दद्यात्प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम् ॥

13.236.8

एकस्यापि बहूनां वा दातव्यं भूतिमिच्छता ।
तस्य दानफलं देवि अग्निष्टोमेन संयुतम् ॥

13.236.9

केवलं वा तिलैरेव भूमौ कृत्वा गवाकृतिम् । सवस्त्रकं सरत्नं च पुंसा गोदानकाङ्क्षिणा ।
तदर्हाय प्रदातव्यं तस्य गोदानतः फलम् ॥

13.236.10

शरावांस्तिलसम्पूर्णान्सहिरण्यान्सचम्पकान् ।
नृपोऽददद्ब्राह्मणाय सु पुण्यफलभाग्भवेत् ॥

13.236.11

एवं तिलमयं देयं नरेण हितमिच्छता ।
नानादानफलं भूयः शृणु देवि समाहिता ॥

13.236.12

बलमायुष्यमारोग्यमन्नदानाल्लभेन्नरः ।
पानीयदस्तु सौभाग्यं रसज्ञानं लभेन्नरः ॥

13.236.13

वस्त्रदानाद्वपुःशोभामलङ्कारं लभेन्नरः ।
दीपदो बुद्धिवैशद्यं द्युतिशोभां लभेन्नरः ॥

13.236.14

राजपीडाविमोक्षं तु छत्रदो लभते फलम् । दासीदासप्रदानात्तु भवेत्कर्मान्तभाङ्नरः ।
दासीदासं च विविधं लभेत्प्रेत्य गुणान्वितम् ॥

13.236.15

यानानि वाहनं चैव तदर्हाय ददन्नरः । पादरोगपरिक्लेशान्मुक्तः श्वसनवाहवान् ।
विचित्र रमणीयं च लभते यानवाहनम् ॥

13.236.16

प्रतिश्रयप्रदानं च तदर्हाय तदिच्छते ।
वर्षाकाले तु रात्रौ वा लभेत्पक्षबलं शुभम् ॥

13.236.17

सेतुकूपतटाकानां कर्ता तु लभते नरः ।
दीर्घायुष्यं च सौभाग्यं तता प्रेत्य गतिं शुभां ॥

13.236.18

वृक्षसंरोपको यस्तु छायापुष्पफलप्रदः ।
प्रेत्यभावे लभेत्पुण्यमभिगम्यो भवेन्नरः ॥

13.236.19

यस्तु सङ्क्रमकृल्लोके नदीषु जलहारिणाम् ।
लभेत्पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम् ॥

13.236.20

मार्गकृत्सततं मर्त्यो भवेत्सन्तानवान्नरः ।
कायदोषविमुक्तस्तु तीर्थकृत्सततं भवेत् ॥

13.236.21

औषधानां प्रदानात्तु सततं कृपयाऽन्वितः ।
भवेद्व्याधिविहीनश्च दीर्घायुश्च विशेषतः ॥

13.236.22

अनाथान्पोषयेद्यस्तु कृपणान्धकपङ्गुकान् ।
स च पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम् ॥

13.236.23

वेदगोष्ठाः शुभाः शाला भिक्षूणां च प्रतिश्रयम् ।
यः कुर्याल्लभते नित्यं नरः प्रेत्य फलं शुभम् ॥

13.236.24

प्रासादवासं विविधं यक्षशोभां लभेत्पुनः ।
विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम् ॥

13.236.25

रम्यं तं दैवगोवाटं यः कुर्याल्लभते नरः ।
प्रेत्य भावे शुभां जातिं व्याधिमोक्षं तथैव च ॥

13.236.26

एवं नानाविधं द्रव्यं दानकर्ता लभेत्फलम् ॥
उमोवाच ।

13.236.27

कृतं दत्तं यथा यावत्तस्य तल्लभते फलम् ।
एतन्मे देवदेवेश तत्र कौतूहलं महत् ॥
महेश्वर उवाच ।

13.236.28

प्रेत्यिभावे शृणु फलं दत्तस्य च कृतस्य च । दानं षङ्गुणयुक्तं तु तदर्हाय यथाविधिः ।
यथाविभवतो दानं दातव्यमिति मानवैः ॥

13.236.29

बुद्धिमायुष्यमारोग्यं बलं भाग्यं तथाऽगमम् ।
रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम् ॥

13.236.30

इदं दत्तमिदं देयमित्येवं फलकाङ्क्षया ।
यद्दत्तं तत्तदेव स्यान्न तु किञ्चन लभ्यते ॥

13.236.31

ध्रुवं देव्यत्तमे दानं मध्यमे त्वधमं फलम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc