भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.218

13.218.1

भगवन्देवदेवेश त्र्यक्ष भो वृषभध्वज ।
मानुषास्त्रिविधा देव दृश्यन्ते सततं विभो ॥

13.218.2

आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः ।
अपरे यत्नपूर्वं तु लभन्ते भोगसङ्ग्रहम् ॥

13.218.3

अपरे यतमानाश्च न लभन्ते तु किञ्चन ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.218.4

न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि ॥

13.218.5

ये लोके मानुषा देवि दानधर्मपरायणाः ।
पात्राणि विधिवज्ज्ञात्वा दूरतोप्यनुमानतः ॥

13.218.6

अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च ।
दानादि चेङ्गितैरेव तैरविज्ञातमेव वा ॥

13.218.7

पुनर्जन्मनि ते देवि तादृशाः शोभना नराः ।
अयत्नतस्तु तान्येव फलानि प्राप्नुवन्त्युत ॥

13.218.8

आसीना एव भुञ्जन्ते भोगान्सुकृतभोगिनः ॥

13.218.9

अपरे ये च दानानि ददत्येव प्रयाचिताः ।
यदायदाऽर्थिने दत्त्वा पुनर्दानं च याचिताः ॥

13.218.10

तावत्कालं ततो देवि पुनर्जन्मनि ते नराः ।
यत्नतः श्रमसंयुक्ताः पुनस्तान्प्राप्नुवन्ति च ॥

13.218.11

याचिता अपि केचित्तु अदत्त्वैव कथञ्चन ।
अभ्यसूयापरा मर्त्या लोभोपहतचेतसः ॥

13.218.12

ते पुनर्जन्मनि शुभे यतन्तो बहुधा नराः ।
न प्राप्नुवन्ति मनुजा मार्गन्तस्तेऽपि किञ्चन ॥

13.218.13

नानुप्तं रोहते सस्यं तद्वद्दानफलं विदुः ।
यद्यद्ददाति पुरुषस्तत्तत्प्राप्नोति केवलम् ॥

13.218.14

इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥
उमोवाच ।

13.218.15

भगवन्भगनेत्रघ्न केचिद्वार्धकसंयुताः ।
अभोगयोग्यकाले तु भोगांश्चैव धनानि च ॥

13.218.16

लभन्ते स्थविरा भूता भोगैश्वर्यं यतस्ततः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.218.17

हन्त ते कथयिष्यामि शृणु तत्वं समाहिता ॥

13.218.18

धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः ।
प्राणान्तकाले सम्प्राप्ते व्याधिभिश्च निपीडिताः ॥

13.218.19

आरभन्ते पुनर्धर्मं दातुं दानानि वा नराः ।
ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः ॥

13.218.20

अतीतयौवने काले स्थविरत्वमुपागताः ।
लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे ॥

13.218.21

एतत्कर्मफलं देवि कालयोगाद्भवत्युत ॥
उमोवाच ।

13.218.22

भोगयुक्ता महादेव केचिद्व्याधिपरिप्लुताः ।
असमर्थाश्च तान्भोक्तं भवन्ति किमु कारणम् ॥
महेश्वर उवाच ।

13.218.23

व्याधियोगपरिक्लिष्टा ये निराशाः स्वजविते ।
आरभन्ते तदा कर्तुं दानानि शुभलक्षणम् ॥

13.218.24

ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्युत ।
असमर्थाश्च तान्भोक्तुं व्याधितास्ते भवन्त्युत ॥
उमोवाच ।

13.218.25

भगवन्देवदेवेश मानुषेष्वेव केचन । रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.218.26

हन्त ते कथयिष्यामि शृणु तत्वं समाहिता ॥

13.218.27

ये पुरा मनुजा देवि लज्जायुक्ताः प्रियंवदाः ।
शक्ताः सुमधुरा नित्यं भूत्वा चैव स्वभावतः ॥

13.218.28

अमांसभोजिनश्चैव सदा प्राणिदयायुताः । प्रतिकर्मप्रदा वाऽपि वस्त्रदा धर्मकारणात् ।
भूमिशुद्धिकरा वाऽपि कारणादग्निपूजकाः ॥

13.218.29

एवं युक्तसमाचाराः पुनर्जन्मनि ते नराः ।
रूपेण स्पृहणीयास्तु भवन्त्येव न संशयः ॥
उमोवाच ।

13.218.30

विरूपाश्च प्रदृश्यन्ते मानुषेष्वेव केचन ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.218.31

तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥

13.218.32

रूपयोगात्पुरा मर्त्या दर्पाहन्कारसंयुताः ।
विरूपहासकास्चैव स्तुतिनिन्दादिभिर्भृशम् ॥

13.218.33

परोपतापनाश्चैव मांसादाश्च तथैव च ।
अभ्यसूयापराश्चैव अशुद्धाश्च तथा नराः ॥

13.218.34

एवं युक्तसमाचारा यमलोके सुदण्डिताः । कथञ्चित्प्राप्य मानुष्यं तत्र ते रूपवर्जिताः ।
विरूपाः सम्भवन्त्येव नास्ति तत्र विचारणा ॥
उमोवाच ।

13.218.35

भगवन्देवदेवेश केचित्सौभाग्यसंयुताः । रूपभोग्यविहीनाश्च दृश्यन्ते प्रमदाप्रियाः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.218.36

ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः ।
स्वदारैरेव सन्तुष्टा दारेषु समवृत्तयः ॥

13.218.37

दाक्षिण्येनैव वर्तन्ते प्रमदास्वप्रियास्वपि । न तु प्रत्यादिशन्त्येव स्त्रीदोषान्गुणसंश्रितान् ।

13.218.38

अन्नपानीयदाः काले नृणां स्वादुप्रदाश्च ये ।
स्वदारवर्तिनश्चैव धृतिमन्तो निरत्ययाः ॥

13.218.39

एवं युक्तसमाचाराः पुनर्जन्मनि शोभने । मानुषास्ते भवन्त्येव सततं सुभगा भृशम् ।
अर्थादृतेऽपि ते देवि भवन्ति प्रमदाप्रियाः ॥
उमोवाच ।

13.218.40

दुर्भगाः सम्प्रदृश्यन्ते आढ्या भोगयुता अपि ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.218.41

तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ॥

13.218.42

ये पुरा मनुजा देवि स्वदारेष्वनपेक्षया ।
यथेष्टवृत्तयश्चैव निर्लज्जा वीतसम्भ्रमाः ॥

13.218.43

परेषां विप्रियकरा वाङ्मनःकायकर्मभिः ।
निराश्रया निरानन्दाः स्त्रीणां हृदयकोपनाः ॥

13.218.44

एवं युक्तसमाचाराः पनर्जन्मनि ते नराः । दुर्भगास्तु भवन्त्येव स्त्रीणां हृदयविप्रियाः ।

13.218.45

नास्ति तेषां रतिसुखं स्वदारेष्वपि किञ्चन ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc