भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.217

13.217.1

भगवन्भगनेत्रघ्न कालसूदन शङ्कर । इमे वर्णाश्च चत्वारो विहिताः स्वस्वभावतः ।
उताहो क्रियया वर्णाः सम्भवन्ति महेश्वर ॥

13.217.2

एवं मे संशयप्रश्नस्तं मे छेत्तुं त्वमर्हसि ॥
महेश्वर उवाच ।

13.217.3

स्वभावादेव विद्यन्ते चत्वारो ब्राह्मणादयः ।
एकजात्या सुदुष्प्रापमन्यवर्णत्वमागतम् ॥

13.217.4

तच्च कर्मविशेषेण पुनर्जन्मनि जायते । तस्मात्तेषां प्रवक्ष्यामि तत्सर्वं कर्मपाकजम्

13.217.5

ब्राह्मणस्तु नरो भूत्वा स्वजातिमनुपालयन् ।
दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत् ॥

13.217.6

सत्यार्जवपरो भूत्वा दानयज्ञपरस्तथा ।
सत्यां जात्यां समुदितो जातिधर्मान्न हापयेत् ॥

13.217.7

एवं संवर्तमानस्तु कालधर्मं गतः पुनः ।
स्वर्गलोके हि जायेत स्वर्गभोगाय भामिनि ॥

13.217.8

तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते ।
एवंस्वकर्मणा मर्त्यः स्वजातिं लभते पुनः ॥

13.217.9

अपरस्तु तथा कश्चिद्ब्रह्मयोनिसमुद्भवः ।
अवमत्यैव तां जातिमज्ञानतमसा वृतः ॥

13.217.10

अन्यथा वर्तमानस्तु जातिकर्माणि वर्जयेत् । शूद्रवद्विचरेल्लोके शूद्रकर्माभिलाषवान् ।
शूद्रैः सह चरन्नित्यं शौचमङ्गलवर्जितः ।

13.217.11

स चापि कालधर्मस्थो यमलोके सुदण्डितः ।
यदि जायेत मर्त्येषु शूद्र एवाभिजायते ॥

13.217.12

शूद्र एव भवेद्देवि ब्राह्मणोऽपि स्वकर्मणा ॥

13.217.13

तथैव शूद्रस्त्वपरः शूद्रकर्माणि वर्जयेत् । सत्यार्जवपरो भूत्वा दानधर्मपरस्तथा ।
मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः ॥

13.217.14

एवं युक्तसमाचारः शूद्रोपि मरणं गतः । स्वर्गलोके हि जायेत तत्क्षये नृषु जायते ।
ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते ॥

13.217.15

एवमेव सदा लोके शूद्रो ब्राह्मण्यमाप्नुयात् ॥

13.217.16

एवं क्षत्रियवैश्याश्च जातिधर्मेण संयुताः ।
स्वकर्मणैव जायन्ते विशिष्टेष्वधमेषु च ॥

13.217.17

एवं जातिविपर्यासः प्रेत्यभावे भवेन्नृणाम् ।
अन्यथा तु न शक्यं तल्लोकसंस्थितिकारणात् ॥

13.217.18

तस्माज्जातिं विशिष्टां तु कथञ्चित्प्राप्य पण्डितः । सर्वथा तां तथा रक्षेन्न पुनर्भ्रश्यते यथा ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥
उमोवाच ।

13.217.19

जन्मप्रभृति कः शुद्धो लभेज्जन्मफलं नरः ।
शोभनाशोभनं सर्वमधैकारवशात्स्वकम् ॥
महेश्वर उवाच ।

13.217.20

कर्म कुर्वन्न लिप्येत आर्जवेन समाचरेत् ।
आत्मैव तच्छुभं कुर्यादशुभे योजयेत्परान् ॥

13.217.21

शठेषु शठवत्कुर्योदार्यष्वार्यवदाचरेत् । आपत्सु नावसीदेच्च घोरान्सङ्ग्रामयेत्परात् ।
साम्नैव सर्वकार्याणि कर्तुं पूर्वं समारभेत् ॥

13.217.22

अनर्थाधर्मशोकानां यथा न प्राप्नुयात्स्वयम् ।
प्रीयते तत्तथा कर्तुमेतद्वृत्तं समासतः ॥

13.217.23

एवं वृत्तं समासाद्य गृहमाश्रित्य मानवाः ।
निराहारा निरुद्वेगाः प्राप्नुवन्त्युत्तमां गतिम् ॥

13.217.24

एतज्जन्मफलं नित्यं सर्वेषां गृहवासिनाम् । एवं गृहस्थितैर्नित्यं वर्तितव्यमिति स्थितिः ।
एतत्सर्वं मया प्रोक्तं किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।

13.217.25

सुरासुरपते देव वरद प्रीतिवर्धन । मानुषेष्वेव ये के चिदाढ्याः क्लेशविवर्जिताः ।
भुञ्जाना विविधान्भोगान्दृश्यन्ते निरुपद्रवाः ॥

13.217.26

अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः ॥

13.217.27

किमर्थं मानुषे लोके न समत्वेन कल्पिताः ।
एतच्छ्रोतुं महादेव कौतूहलमतीव मे ॥
महेश्वर उवाच ।

13.217.28

न्यायतस्त्वं महाभागे श्रोतुकामासि भामिनि ।
शृणु तत्सर्वमखिलं मानुषाणां हितं वचः ॥

13.217.29

आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत्प्रजाः । नित्यं न भवतो ह्यस्य रागद्वेषौ प्रजापतेः ।
तदा तस्मात्सुराः सर्वे बभूवुः समतो नराः ॥

13.217.30

एवं संवर्तमाने तु युगे कालविपर्ययात् ।
केचित्प्रपेदिरे तत्र विषमं बुद्धिमोहिताः ॥

13.217.31

तेषां हानिं ततो दृष्ट्वा तुल्यानामेव भामिनि ।
ब्राह्मणास्ते समाजग्मुस्तत्तत्कारणवेदकाः ॥

13.217.32

कर्तुं नार्हसि देवेश पक्षपातं त्वमीदृशम् ।
पुत्रभावे समे देव किमर्थं नो भवेत्कलिः ॥

13.217.33

एवमेतैरुपालब्धो ब्रह्मा वचनमब्रवीत् ।
यूयं मा ब्रूत मे दोषं स्वकृतं स्मरथ प्रजाः ॥

13.217.34

युष्माभिरेव युष्माकं ग्रथितं हि शुभाशुभम् । यादृशं कुरुते कर्म तादृशं फलमश्नुते ।
स्वकृतस्य फलं भुङ्क्ते नान्यस्तद्बोक्तुमर्हति ॥

13.217.35

एवं सम्बोधितास्तेन कालकर्त्रा स्वयम्भुवा ।
पुनर्विवृत्य कर्माणि शुभान्येव प्रपेदिरे ॥

13.217.36

एवं विज्ञाततत्वास्ते दानधर्मपरायणाः । शुभानि विधिवत्कृत्वा कालधर्मगताः पुनः ।
तानि दानफलान्येव भुञ्जते सुखभोगिनः ॥

13.217.37

स्वकृतं तु नरस्तस्मात्स्वयमेव प्रपद्यते ॥

13.217.38

अपरे धर्मकामेभ्यो निवृत्ताश्च शुभेक्षणे ।
कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः ॥

13.217.39

तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने ।
दरिद्राः क्लेशभूयिष्ठा भवन्त्येव न संशयः ॥
उमोवाच ।

13.217.40

मानुषेष्वथ ये केचिद्धनधान्यसमन्विताः । भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्वपि ।
न भुञ्जते किमर्थं ते तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.217.41

परैः सञ्चोदिता धर्मं कुर्वते न स्वकामतः ।
स्वयं श्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च ॥

13.217.42

तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने । फलानि तानि सम्प्राप्य भुञ्जते न कदाचन ।
रक्षन्तो वर्धयन्तश्च आसते निधिपालवत् ॥
उमोवाच ।

13.217.43

केचिद्धनवियुक्ताश्च भोगयुक्ता महेश्वर ।
मानुषाः सम्प्रदृश्यन्ते तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.217.44

आनृशंस्यपरा ये तु धर्मकामाश्चि दुर्गताः ।
परोपकारं कुर्वन्ति दीनानुग्रहकारणात् ॥

13.217.45

प्रतिपद्युः परधनं नष्टं वाऽन्यैर्नरैर्हृतम् ।
नित्यं ये दातुमनसो नरा वित्तेष्वसत्स्वपि ॥

13.217.46

कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः ।
एते धनविहीनाश्च भोगयुक्ता भवन्त्युत ॥

13.217.47

धर्मदानोपदेशं वा कर्तव्यमिति निश्चयः ।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc