भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.21

13.21.1

विनता पुत्रशोकार्ता शापाद्भीता च भारत ।
प्रतीक्षते स्म तं कालं यः पुत्रोक्तस्तदाऽभवत् ॥

13.21.2

ततोऽप्यतीते पञ्चशते वर्षाणां कालसंयुगे ।
गरुडोऽथ महावीर्यो जज्ञे भुजगभुग्बली ॥

13.21.3

बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान् ।
रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः ॥

13.21.4

यस्त्वण्डात्स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ ।
विनतापूर्वजः पुत्रः सोऽरुणो दृश्यते दिवि ॥

13.21.5

पूर्वां दिशामभिप्रेत्य सूर्यस्योदयनं प्रति ।
अरुणोऽरुणसन्काशो नाम्ना चैवारुणः स्मृतः ॥

13.21.6

जातमात्रस्तु विहगो गरुडः पन्नगाशनः ।
विहाय मातरं क्षिप्रमगमत्सर्वतो दिशः ॥

13.21.7

स तदा ववृधेऽतीव सर्वकामैः कदाऽर्चितः ।
पितामहविसृष्टेन भोजनेन विशाम्पते ॥

13.21.8

तस्मिंश्च विहगे तत्र यथाकामं विवर्धति ।
कद्रूश्च विनता चैवागच्छतां सागरं प्रति ॥

13.21.9

ददृशाते तु ते यान्तमुच्चैश्श्रवसमन्तिकात् ।
स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम् ॥

13.21.10

ततः कद्रूर्हसन्त्येव विनतामिदमब्रवीत् ।
हयस्य वर्णः को न्वत्र ब्रूहि यस्ते मतः शुभे ॥
विनतोवाच ।

13.21.11

एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम ।
वर्णं वा कीदृशं तस्य मन्यते त्वं मनस्विनि ॥
कद्रूरुवाच ।

13.21.12

सर्वश्वेतो मतस्तुभ्यं य एष हयसत्तमः ।
ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि ॥
विनतोवाच ।

13.21.13

यद्यार्ये दीव्यसि त्वं मे कः पणो नो भविष्यति ।
सा तज्ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया ॥
कद्रूरुवाच ।

13.21.14

जिता दासी भवेर्मे त्वमहं चाप्यसितेक्षणे ।
नैकवर्णैकवर्णत्वे विनते रोचते च ते ॥

13.21.15

रोचते मे पणे राज्ञि दासीत्वेन न संशयः ।
सत्यमातिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्यहम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc