भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.20

13.20.1

युधिष्ठिर महाबाहो शृणु राजन्यथातथम् ।
गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम् ॥

13.20.2

तथा च गरुडो राजन्सुपर्णश्च यथाऽभवत् ।
यथा च भुजगान्हन्ति तथा मे ब्रुवतः शृणु ॥

13.20.3

पुराऽहं तात रामेणि जामदग्न्येन धीमता ।
कैलासशिखरे रम्ये मृगान्निघ्नन्सहस्रशः ॥

13.20.4

तमहं तात दृष्टैव शस्त्रण्युत्सृज्य सर्वशः ।
अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान् ॥

13.20.5

तमहं कथान्ते वरदं सुपर्णस्य बलौजसी ।
अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर ॥

13.20.6

कद्रूश्च विनता चास्तां प्रजापतिसुते उभे ।
ते तु धर्मेणोपयेमे मारीचः कश्यपः प्रभुः ॥

13.20.7

प्रादात्ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः ॥

13.20.8

तत्र कद्रूर्वरं वव्रे पुत्राणां दशतः शतम् ।
तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम् ॥

13.20.9

विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम ।
कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ ॥

13.20.10

स तु ताभ्यां वरं प्रादात्तथेत्युक्त्वा महातपाः ।
जनयामास तान्पुत्रां स्ताभ्यामासीद्यथा पुरा ॥

13.20.11

कद्रूः प्रजज्ञे ह्यण्डानां तथैव दशतःशतम् ।
अण्डे द्वे विनता चैव दर्शनीयतरे शुभे ॥

13.20.12

तानि त्वण्डानि तु तयोः कद्रूविनतयोर्द्वयोः ।
सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः ॥

13.20.13

निस्सरन्ति तदाऽण्डेभ्यः कद्रूपुत्रा भुजङ्गमाः ।
पञ्चवर्षशते काले दृष्ट्वाऽमोघबलौजसः ॥

13.20.14

विनता तेषु जातेषु पन्नगेषु महात्मसु ।
विपुत्रा पुत्रसन्तापाद्दण्डमेकं बिभेद ह ॥

13.20.15

किमनेन करिष्येऽहमिति वाक्यमभाषत ।
नहि पञ्चशते काले पुरा पुत्रौ ददर्श सा ॥

13.20.16

सापश्यदण्डान्निष्क्रान्तं विनापत्रं मनस्विनम् ।
पूर्वकायोपसम्पन्नं वियुक्तमितरेण ह ॥

13.20.17

दृष्ट्वा तु तं तथारूपमसमग्रशरीरिणम् ।
पुत्रदुःखान्विताऽशोचत्स च पक्षी तथा गतः ॥

13.20.18

अब्रवीच्च मुदा युक्तः पर्यश्रुनयनस्तदा ।
मातरं च पलाशी ह हतोऽहमिति चासकृत् ॥

13.20.19

न त्वया काङ्क्षितः कालो यावानेवात्यगात्पुरा ।
आवां भवाय पुत्रौ ते श्वसनाद्बलवत्तरौ ॥

13.20.20

ईर्ष्याक्रोधाभिभूतत्वाद्योहमेवं कृतस्त्वया ।
तस्मात्त्वमपि मे मातर्दासीभावं गमिष्यसि ॥

13.20.21

पञ्चवर्षशतानि त्वं स्पर्धसे वै यया सह ।
दासी तस्या भवित्रीति साश्रुपातमुवाच ह ॥

13.20.22

एष चैव महाभागे बली बलवतांवरः । मोक्षयिष्यति ते मातर्दासीभावान्ममानुजः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc