भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.195

13.195.1

ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः ।
उवाच वचनं देवान्वासवं च शचीपतिम् ॥

13.195.2

अयं महाबलो नागो रसातलचरो बली ।
तेजस्वी रेणुको नाम महासत्वपराक्रमः ॥

13.195.3

अतितेजस्विनः सर्वे महावीर्या महागजाः ।
धारयन्ति महीं कृत्स्नां सशैलवनकाननाम् ॥

13.195.4

भवद्भिः समनुज्ञातो रेणुकस्तान्महागजान् ।
धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै ॥

13.195.5

पितामहवचःक श्रुत्वा ते देवा रेणुकं तदा ।
प्रेषयामासुरव्यग्रा यत्र ते धरणीधराः ॥
रेणुक उवाच ।

13.195.6

अनुज्ञातोऽस्मि देवैश्च पितृभिस्चक महाबलाः । धर्मगुह्यानि युष्माकं श्रोतुमिच्छामि तत्त्वतः ।
कथयध्वं महाभागा यद्वस्तत्त्वं मनीषितम् ॥
दिग्गजा ऊचुः ।

13.195.7

कार्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा । तेन नक्षत्रयोगेन यो ददाति गुडौदनम् ।
इमं मन्त्रं जपच्छ्राद्धे यताहारो ह्यकोपनः ॥

13.195.8

बलदेवप्रभृतयो ये नागा बलवत्तराः ।
अनन्ता ह्यक्षया नित्यं भोगिनः सुमहाबलाः ॥

13.195.9

तेषां कुलोद्भवा ये च महाभूता भुजङ्गमाः ।
ते मे बलिं प्रयच्छन्तु बलतेजोभिवृद्धये ॥

13.195.10

यदा नारायणः श्रीमानुज्जहार वसुन्धराम् ।
तद्बलं तस्य देवस्य धरामुद्धरतस्तथा ॥

13.195.11

एवमुक्त्वा बलिं तत्र वल्मीके तु निवेदयेत् ॥

13.195.12

गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम् ।
निर्वपेत्तं तु वल्मीके अस्तं याते दिवाकरे ॥

13.195.13

एवं तुष्टास्ततः सर्वे अधस्ताद्भारपीडिताः ।
श्रमं तं नावबुध्यामो धारयन्तो वसुन्धराम् ॥

13.195.14

एवं मन्यामहे सर्वे भारार्ता निरपेक्षिणः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्युपोषितः ॥

13.195.15

एवं संवत्सरं कृत्वा दानं बहुफलं लभेत् ।
वल्मीके बलिमादाय तन्नो बहुफलं मतम् ॥

13.195.16

ये च नागा महावीर्यास्त्रिषु लोकेषु कृत्स्नशः ।
कृतातिथ्या भवेयुस्ते शतं वर्षाणि तत्त्वतः ॥

13.195.17

दिग्गजानां च तच्छ्रुत्वा देवताः पितरस्तथा । ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम् ॥ ] ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc