भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.194

13.194.1

ततः सर्वे महाभागा देवाश्च पितरश्च ह ।
ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन् ॥

13.194.2

भवन्तो वै महाभागा अपरोक्षनिशाचराः ।
उच्छिष्टानशुचीन्क्षुद्रान्कथं हिसथ मानवान् ॥

13.194.3

के च स्मृताः प्रतीघाता येन मर्त्यान्न हिंसथ । रक्षोघ्नानि च कानि स्युर्यैर्गृहेषु प्रणश्यथ ।
श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः ॥
प्रमथा ऊचुः ।

13.194.4

मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे ।
मोहान्मांसानि खादेत वृक्षमूले च यः स्वपेत् ॥

13.194.5

आमिषं शीर्षतो यस्य पादतो यश्च संविशेत् ।
तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः ॥

13.194.6

उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति ।
एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः ॥

13.194.7

एवं शीलसमाचारान्धर्षयामो हि मानवान् । श्रूयतां च प्रतीघातान्यैर्न शक्नुम हिंसितुम् ।

13.194.8

गोरोचनासमालम्भो वचाहस्तश्च यो भवेत् ।
घृताक्षतं च यो दद्यान्मस्तके तत्परायणः ॥

13.194.9

ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम् ।
यस्य चाग्निर्गृहे नित्यं दिवारात्रौ च दीप्यते ॥

13.194.10

तरक्षोश्चर्मदंष्ट्राश्च तथैव गिरिकच्छपः ।
आज्यधूमो बिडालश्च च्छागः कृष्णोऽत पिङ्गलः ॥

13.194.11

येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम् ।
तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः ॥

13.194.12

लोकानस्मद्विधा ये च विचरन्ति यथासुखम् । तस्मादेतानि गेहेषु रक्षोघ्नानि विशाम्पते ।
एतद्वः कथितं सर्वं यत्र वः संशयो महान् ॥ ] ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc