भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.185

13.185.1

स्त्रीणां हि समुदाचारं सर्वधर्मविदांवर ।
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.185.2

सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम् ।
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥

13.185.3

केन वृत्तेन कल्याणि समाचारेण केन वा ।
विधूय सर्वपापानि देवलोकं त्वमागता ॥

13.185.4

हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा ।
सुता ताराधिपस्येव प्रभया दिवमागता ॥

13.185.5

अरजांसि च वस्त्राणि धारयन्ती गतक्लमा ।
विमानस्था शुभा भासि सहस्रगुणमोजसा ॥

13.185.6

न त्वमल्पेन तपसा दानेन नियमेन वा ।
इमं लोकमनुप्राप्ता त्वं हि तत्त्वं वदस्व मे ॥

13.185.7

इति पृष्टा सुमनया मधुरं चारुहासिनी ।
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥

13.185.8

नाहं काषायवसना नापि वल्कलधारिणी ।
न च मुण्डा च जटिला भूत्वा देवत्वमागता ॥

13.185.9

अहितानि च वाक्यानि सर्वाणि परुषाणि च ।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रवम् ॥

13.185.10

देवतानां पितॄणां च ब्राह्मणानां च पूजने ।
अप्रमत्ता सदा युक्ता श्वश्रूश्वशुरवर्तिनी ॥

13.185.11

पैशुन्ये न प्रवर्तामि न ममैतन्मनो गतम् ।
अद्वारि न च तिष्ठामि चिरं न कथयामि च ॥

13.185.12

असद्वा हसितं किञ्चिदहितं वाऽपि कर्मणा ।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥

13.185.13

कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् ।
आसनेनोपसंयोज्य पूजयामि समाहिता ॥

13.185.14

यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति ।
भक्ष्यं वा यदि वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥

13.185.15

कुटुम्बार्थे समानीतं यत्किञ्चित्कार्यमेव तु ।
पुनरुत्थाय तत्सर्वं कारयामि करोमि च ॥

13.185.16

अग्निसंरक्षणपरा गृहशुद्धिं च कारये ।
कुमारान्पालये नित्यं कुमारीं परिशिक्षये ॥

13.185.17

आत्मप्रियाणि हित्वाऽपि गर्भसंरक्षणे रता ।
बालानां वर्जये नित्यं शापं कोपं प्रतापनम् ॥

13.185.18

अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे । रक्तवत्स्पृहये गेहे गावः सयवसोदकाः ।
समुद्गम्य च शुद्धाऽहं भिक्षां दद्यां द्विजातिषु ॥

13.185.19

प्रवासं यदि मे याति भर्ता कार्येण केनचित् ।
मङ्गलैर्बहुभिर्युक्ता भवामि नियता तदा ॥

13.185.20

अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् ।
प्रसाधनं च निष्क्रान्ते नामिनन्दामि भर्तरि ॥

13.185.21

नोत्थापयामि भर्तारं सुखं सुप्तमहं सदा । आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ।
नोत्थापये सुखं सुप्तं ह्यातुरं पालये पतिम् ॥

13.185.22

नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा ।
गुप्तगुह्या सदा चास्मि सुसम्मृष्टनिवेशना ॥

13.185.23

इमं धर्मपथं नारी पालयन्ती समाहिता ।
अरुन्धतीव नारीणीस्वर्गलोके महीयते ॥
भीष्म उवाच ।

13.185.24

एतदाख्याय सा देवी सुमनायै तपस्विनी ।
पतिधर्मं महाभागा जगामादर्शनं तदा ॥

13.185.25

यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि ।
स देवलोकं सम्प्राप्य नन्दने स सुखी वसेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc