भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.184

13.184.1

एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत । दिष्ट्यैतत्त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी?

13.184.2

लोको ह्ययं गुणानेव भूयिष्ठं सम्प्रशंसति ।
रूपमानो वयोमानो धनविद्यामदस्तथा ॥

13.184.3

दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः ।
तत्ते बहुगुणं दानं वर्तयिष्यामि तच्छृणु ॥

13.184.4

यानीहागमशास्त्राणि याश्च काश्चित्प्रिवृत्तयः । तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ।

13.184.5

अहं दानं प्रशंसामि भवानपि तपःश्रुतेः ।
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥

13.184.6

तपसा महदाप्नोति विद्यया चेति नः श्रुतम् ।
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥

13.184.7

यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः ।
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ॥

13.184.8

दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम् ।
सर्वं वै तपसाऽभ्योति तपो हि बलवत्तरम् ॥

13.184.9

सुरापः स्वर्णहारी च भ्रूणहा गुरुतल्पगः ।
तपसा तरते सर्वमेनसश्च प्रमुच्यते ॥

13.184.10

सर्वो वैद्यस्तु चक्षुष्मानपि यादृशतादृशः ।
तपस्विनं तथैवाहुस्ताभ्यां कार्यं सतां मतम् ॥

13.184.11

सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः ।
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ॥

13.184.12

इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् ।
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकम् ॥

13.184.13

पूजिताः पूजयन्त्येते मानिता मानयन्ति च ।
स दाता यत्र यत्रैति सर्वतः सम्प्रणूयते ॥

13.184.14

अकर्ता चैव कर्ता च लभते यस्य यादृशम् ।
यदि चोर्ध्वं यद्यधो वा स्वान्लोकानभियास्यति ॥

13.184.15

प्राप्स्यसि त्वन्नपानानि यानि दास्यसि कर्हिचित् ।
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ॥

13.184.16

कौमारदारो व्रतवान्मैत्रेय निरतो भव ।
[एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥

13.184.17

यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता ।
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ॥

13.184.18

अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा.] दानेन तपसा चैव विष्णोरभ्यर्चनेन च ।
ब्राह्मणः स महाभाग तरेत्संसारसागरात् ॥

13.184.19

स्वकर्मशुद्धसत्त्वानां तपोभिर्निर्मलात्मनाम् ।
विद्यया गतमोहानां तारणाय हरिः स्मृतः ॥

13.184.20

तदर्चनपरो नित्यं तद्भक्तस्तं नमस्कुरु ।
तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः ॥

13.184.21

प्रणवोपासनपराः परमार्थिपरास्त्विह । एतैः पावय चात्मानं सर्वपापमपोह्य च ॥

13.184.22

स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् ।
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ॥

13.184.23

तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम् ।
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc