भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.176

13.176.1

ततो युधिष्ठिरो राजा शरतल्पे पितामहम् ।
पुनरेव महाराज पप्रच्छ वदतांवरः ॥
युधिष्ठिर उवाच ।

13.176.2

ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते ।
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥

13.176.3

कर्मणा न नरः कुर्वन्हिंसां पार्थिवसत्तम ।
वाचा च मनसा चैवं ततो दुःखात्प्रमुच्यते ॥
भीष्म उवाच ।

13.176.4

चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः ।
एकैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥

13.176.5

यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति ।
तथैवेयं महीपाल कारणैः प्रोच्यते त्रिभिः ॥

13.176.6

यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥

13.176.7

एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा ।
कर्म्णा लिप्यते जन्तुर्वाचा च मनसाऽपि च ॥

13.176.8

पूर्वं तु मनसा त्यक्त्वा त्यजेद्वाचाऽथ कर्मणा ।
हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा ॥

13.176.9

काये मनसि वाक्येऽपि दोषा ह्येते प्रकीर्तिताः ।
[न भक्षयति यो मांसं त्रिविधं स विमुच्यते ॥

13.176.10

त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः । मनो वाचि तथाऽस्वादे दोषा ह्येषु प्रतिष्ठिताः ॥ ]

13.176.11

न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ।
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे ॥

13.176.12

पुत्र मांसोपमं जानन्खादते यो विचेतनः ।
मांसं मोहसमायुक्तः पुरुषः सोऽधमः स्मृतः ॥

13.176.13

पितृमातृसमायोगे पुत्रत्वं जायते यथा ।
हिंसां कृत्वाऽवशः पापो भूयिष्ठं जायते तथा ॥

13.176.14

रसश्च हृदि जिह्वाया ज्ञानं प्रज्ञायते यथा ।
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥

13.176.15

संस्कृतासंस्कृताः पक्वा लवणालवणास्तथा ।
प्रजायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥

13.176.16

भेरीमृदङ्गशब्दांश्च तन्त्रीशब्दांश्च पुष्कलान् ।
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥

13.176.17

परेषां धनधान्यानां हिसकाः स्तावकास्तथा । प्रशंसकाश्च मांसस्य नित्यं स्वर्गे बहिष्कृताः ॥

13.176.18

अचिन्तितमनिर्दिष्टमसङ्कल्पितमेव च ।
रसगृद्ध्याऽभिभूता ये प्रशंसन्ति फलार्थिनः ॥

13.176.19

प्रशंसा ह्येव मांसस्य दोषकल्पफलान्विता ॥

13.176.20

भस्म विष्ठा कृमिर्वाऽपि निष्ठा यस्येदृशी ध्रुवा । स कायः परपीडाभिः कथं धार्योविपश्चिता ॥

13.176.21

जीवितं हि परित्यज्य बहवः साधवो जनाः ।
स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥

13.176.22

एवमेषा महाराज चतुर्भिः कारणैः स्मृता ।
अहिंसा तव निर्दिष्टा सर्वधर्मानुसंहिता ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc