भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.175

13.175.1

अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः ।
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥
बृहस्पतिरुवाच ।

13.175.2

सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि नित्यशः ।
शृणु सन्कीर्त्यमानानि षडेव भरतर्षभ ॥

13.175.3

हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् ।
अहिंसापाश्रयं धर्मं दान्तो विद्वान्समाचरेत् ॥

13.175.4

त्रिदण्डं सर्वभूतेषु निधाय पुरुषः शुचिः ।
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥

13.175.5

अहिंसकानि भूतानि दण्डेन विनिहन्ति यः ।
आत्मनः सुखमन्विच्छन्स प्रेत्य न सुखी भवेत् ॥

13.175.6

आत्मोपमस्तु भूतेषु यो वै भवति पूरुषः ।
त्यक्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥

13.175.7

सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदेषिणः ॥

13.175.8

न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः ।
एष साङ्ग्राहिको धर्मः कामादन्यः प्रवर्तते ॥

13.175.9

प्रख्यापने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥

13.175.10

यथा परः प्रक्रमते परेषु तथा परे प्रक्रमन्ते परस्मिन् ।
निषेवते स्वसमां जीवलोके यथा धर्मो नैपुणेनोपदिष्टः ।
वैशम्पायन उवाच ।

13.175.11

इत्युक्त्वा तं सुरगुरुधर्मराजं युधिष्ठिरम् ।
दिवामचक्रमे धीमान्पश्यतामेव नस्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc