भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.174

13.174.1

अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयाऽनघ ।
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतांवर ॥

13.174.2

कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥
बृहस्पतिरुवाच ।

13.174.3

कृत्वा पापानि कर्माणि अधर्मवशमागतः ।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥

13.174.4

मोहादधर्मं यः कृत्वा पुनः समनुतप्यते ।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥

13.174.5

[यथायथा मनस्तस्य दुष्कृतं कर्म गर्हते ।
तथातथा शरीरं तु तेनाधर्मेण मुच्यते ॥

13.174.6

यदि व्याहरते राजन्विप्राणां धर्मवादिनाम् । ततोऽधर्मकृतात्क्षिप्रमपवादात्प्रमुच्यते ॥ ]

13.174.7

यथायथा नरः सम्यगध्रममनुभाषते । समाहितेन मनसा विमुच्येत तथातथा ।
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥

13.174.8

दत्त्वा विप्रस्य दानानि विविधानि समाहितः ।
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥

13.174.9

प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर ।
नरः कृत्वाऽप्यकार्याणि ततो धर्मेण युज्यते ॥

13.174.10

सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ।
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥

13.174.11

प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते ।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते ॥

13.174.12

अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ।
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः ॥

13.174.13

न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् ।
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥

13.174.14

यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश ।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥

13.174.15

ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ ।
नरोऽधर्मात्प्रमुच्येत योगेष्वभिरतः सदा ॥

13.174.16

भैक्ष्येणान्नं समाहृत्य दद्यादन्नं द्विजेषु वै ।
सुवर्णदानात्पापानि नश्यन्ति सुबहून्यपि ॥

13.174.17

दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते ।
पारायणैश्च वेदानां मुच्यते पातकैर्द्विजः ॥

13.174.18

गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात् ।
वेदार्थं ज्ञापयित्वा तु शुद्धान्विप्रान्यथार्थतः ॥

13.174.19

सर्वत्यागादिभिश्चैव मुच्यते पातकैर्द्विजः ।
सर्वातिथ्यं परं ह्येषां तस्माद्दानं परं स्मृतम् ॥

13.174.20

अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च ।
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥

13.174.21

द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः ।
तेनापोहति धर्मात्मन्दुष्कृतं कर्म पाण्डव ॥

13.174.22

षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ।
वैश्योऽददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥

13.174.23

अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम् ।
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥

13.174.24

औरसेन बलेनान्नमर्जयित्वाऽविहिंसकः ।
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति ॥

13.174.25

न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः ।
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥

13.174.26

अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः ।
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ॥

13.174.27

शूद्रान्नं नैव भोक्तव्यं विप्रैर्धर्मपरायणैः ।
आपद्येव स्वदासानां भोक्तव्यं स्वयमुद्यतैः ॥

13.174.28

दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः ।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥

13.174.29

सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ।
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः ॥

13.174.30

अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते ।
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥

13.174.31

यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा ।
अवन्ध्यं दिवसं कुर्यादन्नपानीयदानतः ॥

13.174.32

भोजयित्वा दशशतं नरो वेदविदां नृप ।
न्यायविद्धर्मविदुषामितिहासविदां तथा ॥

13.174.33

न याति नरकं घोरं संसारांश्च न सेवते ।
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ॥

13.174.34

एवं सुखसमायुक्तो रमते विगतज्वरः ।
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥

13.174.35

एतत्ते सर्वमाख्यातमन्नदानफलं महूत् ।
मूलमेतत्तु धर्माणां प्रदानानां च भारत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc