भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.154

13.154.1

गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ ।
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥
भीष्म उवाच ।

13.154.2

अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप ।
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥

13.154.3

संस्तुत्य पृथिवीं देवीं वासुदेवः प्रतापवान् ।
पप्रच्छ भरतश्रेष्ठ मां त्वं यत्पृच्छसेऽद्य वै ॥
वासुदेव उवाच ।

13.154.4

गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा ।
किमवश्यं धरे कार्यं किं वा कृत्वा सुखं भवेत् ॥
पृथिव्युवाच ।

13.154.5

ऋषयः पितरो देवा मनुष्याश्चैव माधव ।
पूज्याश्चैवार्चनीयाश्च यथा चैव निबोध मे ॥

13.154.6

सदा यज्ञेन देवांश्च सदाऽतिथ्येन मानुषान् ।
छन्दतस्तर्पणेनापि पितॄन्युञ्जन्ति नित्यशः ॥

13.154.7

तेन ह्यृषिगणाः प्रीता ब्रह्मचयेणि चानघ ।
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च ॥

13.154.8

कुर्यात्तथैव देवान्वै प्रियं मे मधुसूदन ।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च ॥

13.154.9

पयोमूलफलैर्वाऽपि पितॄणां प्रीतिमावहेत् ।
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि ॥

13.154.10

आग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ।
प्रजानां पतये चैव पृथग्घोमो विधीयते ॥

13.154.11

तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ।
दक्षिणायां यमायेति प्रतीच्यां वरुणाय च ॥

13.154.12

सोमाय चाप्युदीच्यां वै वास्तुमध्ये प्रजापतेः ।
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव ॥

13.154.13

मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै ।
मरुद्भ्यो दैवतेभ्यश्च बलिमन्तर्गृहे हरेत् ॥

13.154.14

तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् ।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं यथा हरेत् ॥

13.154.15

एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजाय वै ।
अलाभे ब्राह्मणस्याग्नावग्रमुद्धृत्य निक्षिपेत् ॥

13.154.16

यदा श्राद्धं पितृभ्योपि दातुमिच्छेत मानवः ।
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥

13.154.17

पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः ।
वेश्वदैवं ततः कुर्यात्पश्चाद्ब्राह्म्णभोजनम् ॥

13.154.18

ततोऽन्नेनावशेषेण भोजयेदतिथीनपि । अर्घ्यपूर्वं महाराज ततः प्रीणाति मानवान् ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥

13.154.19

आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः ।
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥

13.154.20

ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते ।
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥

13.154.21

राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च ।
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥

13.154.22

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥

13.154.23

वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते ॥

13.154.24

एतांस्तु धर्मान्गार्हस्थ्यान्यः कुर्यादनसूयकः ।
स इहर्द्धिं परां प्राप्य प्रेत्य लोके महीयते ॥
भीष्म उवाच ।

13.154.25

इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् ।
तथा चकार सततं त्वमप्येवं सदाऽचर ॥

13.154.26

एतद्गृहस्थधर्मं त्वं चेष्टमानो जनाधिप ।
इह लोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc