भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.153

13.153.1

केषां देवा महाभागाः सन्नमन्ते महात्मनाम् ।
लोकेऽस्मिंस्तनृषीन्सर्वञ्श्रोतुमिच्छामि सत्तम ॥
भीष्म उवाच ।

13.153.2

इतिहासमिमं विप्राः कीर्तयन्ति पुराविदः ।
अस्मिन्नर्थे महाप्राज्ञास्तं निबोध युधिष्ठिर ॥

13.153.3

वृत्रं हत्वाऽप्युपावृत्तं त्रिदशानां पुरस्कृतम् ।
महेन्द्रमनुसम्प्राप्तं स्तूयमानं महर्षिभिः ॥

13.153.4

श्रिया परमया युक्तं रथस्थं हरिवाहनम् ।
मातलिः प्राञ्जलिर्भूत्वा देवमिन्द्रमुघाच ह ॥

13.153.5

नमस्कृतानां सर्वेषां भगवंस्त्वं पुरस्कृतः ।
येषां लोके नमस्कुर्यात्तान्ब्रवीतु भवान्मम ॥

13.153.6

तस्य तद्वचनं श्रुत्वा देवराजः शचीपतिः ।
यन्तारं परिपृच्छन्तं तमिन्द्रः प्रत्युवाच सः ॥

13.153.7

धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः ।
नाधर्मे वर्तते नित्यं तान्नमस्यामि मातले ॥

13.153.8

ये रूपगुणसम्पन्नाः प्रमदाहृदयन्गमाः ।
निवृत्ताः कामभोगेषु तान्नमस्यामि मातले ॥

13.153.9

स्वेषु भोगेषु सन्तुष्टाः सुवाचो वचनक्षमाः ।
अमानकामाश्चार्घार्हास्तान्नमस्यामि मातले ॥

13.153.10

धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम् ।
चलितां ये निगृह्णन्ति तान्नित्यं पूजयाम्यहम् ॥

13.153.11

इष्टैर्दारैरुपेतानां शुचीनामग्निहोत्रिणाम् ।
चतुष्पादकुटुम्बानां मातिले प्रणमाम्यहम् ॥

13.153.12

महतस्तपसा प्राप्तौ धनस्य विपुलस्य च ।
कत्यागस्तस्य न वै कार्यो योऽत्मानं नावबुध्यते ॥

13.153.13

येषामर्थस्तथा कामो धर्ममूलविवर्धितः ।
धर्मार्थौ तस्य नियतौ तान्नमस्यामि मातले ॥

13.153.14

धर्ममूलार्थकामानां ब्राह्मणानां गवामपि ॥
पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम् ॥

13.153.15

ये भुक्त्वा मानुषान्भोगान्पूर्वे वयसि मातले ।
तपसा स्वर्गमायान्ति शश्वत्तान्पूजयाम्यहम् ॥

13.153.16

असम्भोगान्नचासक्तान्धर्मनित्याञ्जितेन्द्रियान् ।
सन्न्यस्तानचलप्रख्यान्मनसा पूजयामि तान् ॥

13.153.17

ज्ञानप्रसन्नविद्यानां निरूढं धर्ममीप्सितम् ।
परैः कीर्तितशौचानां मातले तान्नमाम्यहम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc