भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.149

13.149.1

एवं प्रयतितव्यं हि शुश्रूषार्थमतन्द्रितैः ।
सर्वाभिरूपसेवाभिस्तुष्यन्ति यतयो यथा ॥

13.149.2

नापराध्येत भिक्षोस्तु न चैनमवधीरयेत् ।
उत्तरं च न सन्दद्यात्क्रुद्धं चैव प्रसादयेत् ॥

13.149.3

श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत् ।
तूष्णीम्भावेन वै तत्र न क्रुद्धमभिसंवदेत् ॥

13.149.4

नाददीत परस्वानि न गृह्णीयादयाचितम् ।
लब्धालब्धेन जीवेत तथैव परितोषयेत् ॥

13.149.5

कोपिनं तु न याचेत ज्ञानविद्वेषकारितः ।
स्थावरेषु दयां कुर्याज्जङ्गमेषु चु प्राणिषु ॥

13.149.6

यथाऽत्मनि तथाऽन्येषु समां दृष्टिं निपातयेत् । सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
सम्पश्यमानो विचरन्ब्रह्मभूयाय कल्पते ॥

13.149.7

हिंसा वा यदि वाऽहिंसां न कुर्यादात्मकारणात् ।
यत्रेतरो भवेन्नित्यं दोषं तत्र न कारयेत् ॥

13.149.8

एवं स मुच्यते दोषात्परानाश्रित्य वर्तयन् ।
आत्माश्रयेण दोषेण लिप्यते ह्यल्पबुद्धिमान् ॥

13.149.9

जरायुजाण्डजाश्चैव उद्भिज्जाः स्वेदजाश्व ये ।
अवध्याः सर्व एतैते बुधैः समनुवर्णिताः ॥

13.149.10

निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते । हिंसा यथाऽन्या विहिता तथा दोष प्रयोजयेत् ।
तथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम् ॥

13.149.11

न हि लोभः प्रभवति हिंसा वाऽपि तदात्मिका ।
शास्त्रदर्शनमेतद्धि विहितं विश्वयोनिना ॥

13.149.12

यद्येतदेवं मन्येत शूद्रो ह्यपि च बुद्धिमान् ।
कृतं कृतवतां गच्छेत्किं पुनर्यो निषेवते ॥

13.149.13

न शूद्रः पतते कश्चिन्न च संस्कारमर्हति ।
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् ॥

13.149.14

अनुग्रहार्तं मनुना सर्ववर्णेषु वर्णितम् ।

13.149.15

यदापवादस्तु भवेत्स्त्रीकृतः परिचारके । अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम् ।
तेन तस्य भवेच्छान्तिस्ततो भूयोप्युपाव्रजेत् ॥

13.149.16

सवर्णाया भवेदेतद्धीनायास्त्वर्धमर्हति । वर्षत्रयं तु वैश्यायाः क्षत्रियायास्तु षट् समाः ।
ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः ।

13.149.17

कटाग्निना वा दग्धव्यस्तस्मिन्नेव क्षणे भवेत् ।
शिश्नावपातनाद्वाऽपि विशुद्धिं समवाप्नुयात् ॥

13.149.18

अनस्थिबन्धमेकं तु यदि प्राणैर्वियोजयेत् ।
उपोष्यैकाहमादद्यात्प्राणायामांस्तु द्वादश ॥

13.149.19

त्रिः स्नानमुदके कृत्वा तस्मात्पापात्प्रमुच्यते ।
अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते ॥

13.149.20

अनेन विधिना वाऽपि स्थावरेषु न संशयः ।
कायेन पद्भ्यां हस्ताभ्यामपराधात्तु मुच्यते ॥

13.149.21

अदुष्टं क्षपयेद्यस्तु सर्ववर्णेषु यश्चरेत् ।
तस्याप्यष्टगुणं विद्यात्प्रायश्चित्तं तदेव तु ॥

13.149.22

चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते ।
कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम् ॥

13.149.23

तस्मादेतानि सर्वाणि विदित्वा न समाचरेत् ।
सर्वभूतहितार्थं हि कुशलानि समाचरेत् ॥

13.149.24

एवं समाहितमनाः सेवते यदि यत्तमान् ।
तद्गतिस्तत्समाचारस्तन्मनास्तत्परायणः ॥

13.149.25

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥

13.149.26

एवं प्रवर्तमानस्तु विनीतः प्रयतात्मवान् ।
निर्णयं पुण्यपापाभ्यामचिरेणोपगच्छति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc