भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.148

13.148.1

न तथा सम्प्रदानेन नोपवासादिभिस्तथा ।
इष्टां गतिमवाप्नोति यथा शुश्रूषकर्मणा ॥

13.148.2

यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः ।
तादृग्भवति तद्धौतमुदकस्य प्रभावतः ॥

13.148.3

शूद्रोप्येतेन मार्गेण यादृशं सेवते जनम् ।
तादृग्भवति संसर्गादचिरेण न संशयः ॥

13.148.4

तस्मात्प्रयत्नतः सेव्या भिक्षवो नियतात्मना ।
उदकग्राहणाद्येन स्नपनोद्वर्तनैस्तथा ॥

13.148.5

अध्वना कर्शितानां च व्याधितानां तथैव च ।
शुश्रूषां नियतं कुर्यात्तेषामापदि यत्नतः ॥

13.148.6

दर्भाजिनान्यवेक्षेत भैक्षभाजनमेव च । यथाकामं च कार्याणि सर्वाण्येवोपसाधयेत् ।
प्रायश्चित्तं यता न स्यात्तथा सर्वं समाचरेत् ॥

13.148.7

व्याधितानां तु भिक्षूणां चेलप्रक्षालनादिभिः ।
प्रतिकर्मक्रिया कार्या भेषजानयनैस्तथा ॥

13.148.8

पिंषणालेपनं चूर्णं कषायमथ साधनम् ।
नान्यस्य प्रतिचारेषु सुखार्थमुपपादयेत् ॥

13.148.9

भिक्षाटनोऽभिगच्छेत भिषजश्च विपश्चितः ।
ततो विनिष्क्रियार्थानि द्रव्याणि समुपार्जयेत् ॥

13.148.10

यश्च प्रीतमना दद्यादादद्याद्भेषजं नरः ।
अश्रद्धया हि दत्तानि तान्यभोक्ष्याणि भिक्षुभिः ॥

13.148.11

श्रद्धया यदुपादत्तं श्रद्धया चोपपादितम् ।
तस्योपभोगाद्धर्मः स्याद्व्याधिभिश्च निवर्त्यते ॥

13.148.12

आदेहपतनादेवं शुश्रूषेद्विधिपूर्वकम् ।
न त्वेवं धर्ममुत्सृज्य कुर्यात्तेषां प्रतिक्रियाम् ॥

13.148.13

स्वभावतो हि द्वन्द्वानि विप्रयान्त्युपयान्ति च । स्वभावतः सर्वभावा भवन्ति नभवन्ति च ।
सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः ॥

13.148.14

विद्यादेवं हि यो धीमांस्तत्ववित्तत्वदर्शनः । न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc