भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.13

13.13.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चतुर्णामपि वेदानां संवादं शृणु पुत्रक ॥
ऋग्वेद उवाच ।

13.13.2

गृहानाश्रयमाणस्य अग्निहोत्रं च जुह्वतः ।
सर्वं सुकृतमादत्ते यः साये नुद्यतेऽतिथिः ॥

13.13.3

न स्कन्दते न व्यथते नास्योर्ध्वं सर्पते रजः ।
वरिष्ठमग्निहोत्राच्च ब्राह्मणस्य मुखे हुतम् ॥
सामवेद उवाच ।

13.13.4

न चेद्धन्ति पितरं मातरं वा न ब्राह्मणं नापवादं करोति ।
यत्किञ्चिदन्यद्वृजिनं करोति । प्रीतोऽतिथिस्तदुपहन्ति पापम् ॥
अथर्ववेद उवाच ।

13.13.6

यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति ।
वैवस्वतो हरते सर्वमस्य मोघं चेष्टं भवति क्रोधनस्य ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc