महाभारत · अध्याय 13.14
भूयस्तु शृणु राजेन्द्र धर्मान्धर्मभृतांवर ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्राग्न्योः सूर्यशच्योश्च तन्मे निगदतः शृणु ॥
इन्द्र उवाच ।
राज्ये विप्रान्प्रपश्यामि कामक्रोधविवर्जितान् ।
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥
अग्निरुवाच ।
यथाऽहं तत्र नाश्नामि यत्र नाश्नन्ति वै द्विजाः एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥
सूर्य उवाच ।
यथा गोब्राह्मणस्यार्थे न तपामि यथाबलम् ।
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥
शच्युवाच ।
कर्मणा मनसा वाचा नावमन्ये पुरन्दरम् ।
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0