भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.12

13.12.1

यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद ।
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृपः ॥

13.12.2

उत्तमापद्गतस्यापि यत्र ते वर्तते मनः ।
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥
भीष्म उवाच ।

13.12.3

स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम् ।
येषां सम्प्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनम् ॥

13.12.4

येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम् ।
उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम् ॥

13.12.5

विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् ।
श्रुतवृत्तोपपन्नानां सदाऽक्षरविदां सताम् ॥

13.12.6

संसत्सु वदतां तात हंसानामिव सङ्घशः ।
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥

13.12.7

सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर ।
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥

13.12.8

ये चापि तेषां श्रोतारः सदा सदसि सम्मताः ।
विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम् ॥

13.12.9

सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च । ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठर ।
ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम् ॥

13.12.10

शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितुम् ॥

13.12.11

शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ।
तेषां संख्यायमानानां दानशूरो विशिष्यते ॥

13.12.12

भद्रं तु जन्म सम्प्राप्य भूयो ब्राह्मणको भवेत् । बन्धुमध्ये कुले जातः सुदुरापमवाप्नुयात् ॥

13.12.13

धन्यः स्यां यद्यहं भूयः सौम्यब्राह्मणकोपि वा ।
कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥

13.12.14

न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन ।
त्वत्तश्चापि प्रियतरा ब्राह्मणा एव भारत ॥

13.12.15

यथा मम प्रियतमास्त्वत्तो विप्राः कुरूत्तम ।
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ॥

13.12.16

न मे पिता प्रियतरो ब्रह्मणेभ्यस्तथाऽभवत् ।
न मे पितुः पिता वाऽपि ये चान्येऽपि सुहृञ्जनाः ॥

13.12.17

न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह ।
अणु वा यदि वा स्थूलं विद्यते साधुकर्मसु ॥

13.12.18

कर्मणा मनसा वाऽपि वाचा वाऽपि परन्तप ।
यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम् ॥

13.12.19

ब्रह्मण्य इति मामाहुस्तया वाचाऽस्मि तोषितः ।
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥

13.12.20

पश्यामि लोकानमलाञ्शुचीन्ब्राह्मणतोषणात् ।
तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥

13.12.21

यथा भर्त्राश्रयो धर्मः स्त्रीणां लोके युदिष्ठिर ।
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥

13.12.22

क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः ।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः ॥

13.12.23

नारी तु पत्यभावे वै देवरं कुरुते पतिम् ।
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥

13.12.24

ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः । तद्रक्षणेन स्वर्गोऽस्य तत्कोपान्नरकोऽक्षयः ॥

13.12.25

पुत्रवच्चैव ते रक्ष्या उपास्या गुरुवच्च ते ।
अग्निवच्चोपचार्या वै ब्राह्मणाः कुरुसत्तम् ॥

13.12.26

ऋजुन्सतः सत्यशीलान्सर्वभूतहिते रतान् ।
आशीविषानिव क्रुद्धान्द्विजान्परिचरेत्सदा ॥

13.12.27

तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर ।
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥

13.12.28

व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते ।
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥

13.12.29

दूरतो मातृवत्पूज्या विप्रदाराः सुरक्षया ।
अकोपनापराधेन भूयो नरकमश्नुते ॥

13.12.30

भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् ।
कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत् ॥

13.12.31

दण्डपाणिर्यथा गोष्ठं पालो नित्यं हि रक्षयेत् ।
ब्राह्मणेषु स्थितं ब्रह्म क्षत्रियः परिपालयेत् ॥

13.12.32

पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः ।
गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc