भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.91

12.91.1

कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।
सम्पद्यदेषा भवति सा बिभर्ति सुखं प्रजाः ॥

12.91.2

यो न जानाति निर्हर्तुं वस्त्राणां रजको मलम् ।
रत्नानि वा शोधयितुं यथा नास्ति तथैव सः ॥

12.91.3

एवमेतद्द्विजेन्द्राणां क्षत्रियाणां विशां तथा ।
शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थितः ॥

12.91.4

कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि ।
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥

12.91.5

तेषां यः क्षत्रियो वेद पात्राणामिव शोधनम् ।
शीलदोषान्विनिर्हर्तुं स पिता स प्रजापतिः ॥

12.91.6

कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥

12.91.7

चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च ।
सर्वमेतत्प्रमुह्येत यदा राजा प्रमाद्यति ॥

12.91.8

अग्नित्रेता त्रयी विद्या यज्ञाश्च सहदक्षिणाः ।
सर्व एव प्रमुह्यन्ते यदा राजा प्रमाद्यति ॥

12.91.9

राजैव कर्ता भूतानां राजैव च विनाशकः ।
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥

12.91.10

राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा ।
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥

12.91.11

हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः ।
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति जन्तवः ॥

12.91.12

[दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते ।
अबलं तु महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥

12.91.13

यश्च भूतं सम्भजते ये च भूतास्तदन्वयाः । अधर्मस्थे हि नृपतौ सर्वे शोचन्ति पार्थिव ॥ ]

12.91.14

दुर्बलस्य च यच्चक्षुर्मुनेराशीविषस्य च ।
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ॥

12.91.15

दुर्बलांस्तात मन्येथा नित्यमेवाविमानि तान् ।
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् ॥

12.91.16

न हि दुर्बलदग्धस्य कुले किञ्चित्प्ररोहति ।
आमूलं निर्दहन्त्येव मा स्म दुर्बलमासद ॥

12.91.17

अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् ।
बलस्याबलदग्धस्य न किञ्चितवशिष्यते ॥

12.91.18

विमानितो हतः क्लिष्टस्त्रातारं चेन्न विन्दन्ते ।
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् ॥

12.91.19

मा स्म तात बलस्थस्त्वं भुञ्जीथा दुर्बलं जनम् ।
मा त्वां दुर्बलचक्षूंषि दहन्त्वग्निरिवाशयम् ॥

12.91.20

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् ।
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसिनां ॥

12.91.21

यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्नृषु ।
न हि पापं कृतं कर्म सद्यः फलति गौरिब ॥

12.91.22

यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति ।
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥

12.91.23

युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव ।
अभीक्ष्णं भिक्षुरूपेण राजानं घ्नन्ति तादृशाः ॥

12.91.24

राज्ञो यदा जनपदे बहवो राजपूरुषाः ।
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥

12.91.25

यदा युक्त्या नयेदर्थान्कामादर्थवशेन वा ।
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥

12.91.26

महान्वृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति ।
यदा वृक्षश्छिद्यते दह्यते च तदाश्रया अनिकेता भवन्ति ॥

12.91.27

यदा राष्ट्रे धर्ममग्र्यं चरन्ति संस्कारं का राजगुणं ब्रुवाणाः ।
तैश्चाधर्मश्चरितो धर्ममोहा त्तूप जह्यात्सुकृतं दुष्कृतं च ॥

12.91.28

यत्र पापा ज्ञायमानाश्चरन्ति सभां कलिर्विन्दते तत्र राज्ञः ।
यत्र राजा शास्ति नरान्न शक्त्या न तद्राज्यं वर्धते भूमिपस्य ॥

12.91.29

यश्चामात्यान्मानयित्वा यथा हि मन्त्रे च युद्धे च नृपोऽनुयुञ्ज्यात् ।
बिबर्धते तस्य राष्ट्रं नृपस्य भुङ्क्ते महीं चाप्यखिलां चिराय ॥

12.91.30

अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् ।
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥

12.91.31

संविभज्य यदा भुङ्क्ते नचान्यानवमन्यते ।
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥

12.91.32

त्रायते हि यदा सर्वं वाचा कायेन कर्मणा ।
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥

12.91.33

संविभज्य यदा भुङ्क्ते नृपतिर्दुर्बलान्नरान् ।
तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते ॥

12.91.34

यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति ।
यदा जयति सन्ग्रामे स राज्ञो धर्म उच्यते ॥

12.91.35

पापमाचरतो यत्र कर्मणा व्याहृतेन वा ।
प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते ॥

12.91.36

यदा सारणिकान्राजा पुत्रवत्परिरक्षति ।
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥

12.91.37

यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयाऽन्वितः ।
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥

12.91.38

कृपणानाथवृद्धानां यदाऽश्रु परिमार्जति ।
हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ॥

12.91.39

विवर्धयति मित्राणि तथाऽरींश्चापि कर्षति ।
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥

12.91.40

सत्यं पालयति प्रीत्या नित्यं भूमिं प्रयच्छति ।
पूजयेदतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥

12.91.41

निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ ।
अस्मिँल्लोके परे चैव राजा स प्राप्नुते फलम् ॥

12.91.42

यमो राजा धार्मिकाणां मान्धातः परमेश्वरः ।
संयच्छन्यमवत्प्राणानसंयच्छंस्तु पावकः ॥

12.91.43

ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमत्य च ।
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥

12.91.44

यमो यच्छति भूतानि सर्वाण्येवाविशेषतः ।
तथा राज्ञाऽनुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥

12.91.45

सहस्राक्षेण राजा हि सर्वथैवोपमीयते ।
स पश्यति च यं धर्म स धर्मः पुरुषर्षभ ॥

12.91.46

अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् ।
भूतानां तत्त्वजिज्ञासा साध्वसाधु च सर्वदा ॥

12.91.47

सन्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् ।
पौरजानपदाश्चैव गोप्तव्याः स्वप्रजा यथा ॥

12.91.48

न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् ।
भारो हि सुमहांस्तात राज्यं नाम सुदुर्वहम् ॥

12.91.49

तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् ।
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनाऽपि वा ॥

12.91.50

अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः ।
सर्वं बुद्ध्या परीक्षेथास्तापसाश्रमिणामपि ॥

12.91.51

अतस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् ।
स्वदेशे परदेशे वा न ते धर्मो विनङ्क्ष्यति ॥

12.91.52

धर्मेचार्थे च कामे च धर्म एवोत्तरो भवेत् ।
अस्मिंल्लोके परे चैव धर्मात्मा सुखमेधते ॥

12.91.53

त्यजन्ति दारान्पुत्रांश्च मनुष्याः परिपूजिताः ।
सन्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥

12.91.54

अप्रमादश्च शौचं च राज्ञो भूतिकरं महत् ।
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥

12.91.55

अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः ।
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥

12.91.56

एतद्वॄत्तं वासवस्य यमस्य वरुणस्य च ।
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥

12.91.57

तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् ।
आतिष्ठ दिव्यं पन्थानमह्नाय पुरुषर्षभ ॥

12.91.58

धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत ।
देवर्षिपितृगन्धर्वाः कीर्तयन्ति महौजसः ॥
भीष्म उवाच ।

12.91.59

स एवमुक्तो मान्धाता तेनोचथ्येन भारत ।
कृतवानविशङ्कश्च एकः प्राप च मेदिनीम् ॥

12.91.60

भवानपि तथा सम्यङ्भान्धातेव महीपते ।
धर्मं कृत्वा महीं रक्ष स्वर्गे स्थानमवाप्स्यसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc