भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.90

12.90.1

आनङ्गिराः क्षत्रधर्मानुचध्यो ब्रह्मवित्तमः ।
मान्धात्रे यौवनाश्चाय प्रीतिमानभ्यभाषत ॥

12.90.2

स यथाऽनुशशासैजमुचध्यो ब्रह्मवित्तमः ।
तत्तेऽहं सम्प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥
उचथ्य उवाच ।

12.90.3

धर्माम राजा भवति न कामकरणाय तु ।
मान्यातरभिजानीहि राजा लोकस्य रक्षिता ॥

12.90.4

राजा चरति चेद्धर्मं देवत्वायैव कल्पते ।
स चेदधर्मं चरति नरकायैव गच्छति ॥

12.90.5

धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठाति ।
तं राजा साधु यः शास्ति स राजा श्रियमश्नुते ॥

12.90.6

राजापराधान्मान्धातर्लक्ष्मीवान्पाप उच्यते ।
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥

12.90.7

अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते ।
तदेव मङ्गलं लोकः सर्वः समनुवर्तते ॥

12.90.8

उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् ।
भयमाहुर्दिवारात्रं यदा पापा न वार्यते ॥

12.90.9

इदं मम इदं नेति साधूनां तात धर्मतः ।
न वै व्यवस्था भवति यदा पापो न वार्यते ॥

12.90.10

नैव भार्या न पशवो न क्षेत्रं न निवेशनम् ।
सन्दृश्येत मनुष्याणां यदा पापबलं भवेत् ॥

12.90.11

देवाः पूजां न जानन्ति न स्वधां पितरस्तदा ।
न पूज्यन्ते ह्यतिथयो यदा पापो न वार्यते ॥

12.90.12

न वेदानधिगच्छन्ति व्रतवन्तो द्विजातयः ।
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥

12.90.13

वध्यानामिव सत्वानां मनो भवति विह्वलम् ।
मनुष्याणां महाराज यदा पापो न वार्यते ॥

12.90.14

उभौ लोकावभिप्रेक्ष्य राजानमसृजंस्तथा ।
मुनयोऽथ महद्भूतमयं धर्मो भविष्यति ॥

12.90.15

यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते ।
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः ॥

12.90.16

वृषो हि भगवान्धर्मो यस्तस्य कुरुते लयम् ।
वृषलं तं वीवदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥

12.90.17

धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा ।
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं विवर्धयेत् ॥

12.90.18

धनानि स्पौति धर्मो हि धारणाद्वेति निश्चयः ।
मानवान मनुष्येन्द्र स सीमान्तकरः स्मृतः ॥

12.90.19

प्रभवार्थम्महि भूतानां धर्मः सृष्टः स्वयम्भुवा ।
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ॥

12.90.20

तस्माद्धि राजशार्दूल धर्मः श्रेष्ठतरः स्मृतः ।
स राजायः प्रजाः शास्ति साधुकृत्पुरुषर्षभ ॥

12.90.21

कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥

12.90.22

धर्मस्य ब्राह्मणे योनिस्तस्मात्तान्पूजयेत्सदा ।
ब्राह्मणानां च मान्धातः कुर्यात्कामानमत्सरी ॥

12.90.23

तेषां ह्यकामकरणाद्राज्ञः सञ्जायते भयम् ।
मित्राणि न च वर्धन्ते तथाऽमित्रीभवन्त्यपि ॥

12.90.24

ब्राह्मणानां सदासूयन्बाल्याद्वैरोचनिर्बलिः ।
अथास्माच्छ्रीरपाक्रामद्याऽस्मिन्नासीत्प्रतापिनी ॥

12.90.25

ततस्तस्मादपाक्रम्य साऽगच्छत्पाकशासनम् ।
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे ॥

12.90.26

एतत्फलमसूयाया अभिमानस्य चाभिभो ।
तस्माद्बुध्यस्व मान्धातर्मा त्वां जह्यात्प्रतापिनी ॥

12.90.27

दर्पोनाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः ।
तेन देवासुरा राजन्नीताः सुबहवोऽव्ययम् ॥

12.90.28

राजर्षयश्च बहवस्तथा बुध्यस्व पार्थिव ।
राजा भवति तं जित्वा दासस्तेन पराजितः ॥

12.90.29

स यथा दर्पसहितमधर्मं नानुसेवते ।
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥

12.90.30

मत्तात्प्रमत्तात्पौगण्डादुन्मत्ताच्च विशेषतः ।
निन्दिताच्चासदाचाराद्दुर्हृदां चापि सेवनात् ॥

12.90.31

निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः ।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥

12.90.32

एतेभ्योऽनित्ययुक्तः स्यान्नक्तं चर्यां च वर्जयेत् ।
अत्याशां चाभिमानं च दम्भं क्रोधं च वर्जयेत् ॥

12.90.33

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च ।
परभार्यासु कन्यासु नाचरेन्मैथुनं नृप ॥

12.90.34

कुलेषु पापरक्षांसि जायन्ते वर्णसन्करात् ।
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥

12.90.35

एते चान्ये च जायन्ते यदा राजा प्रमाद्यति ।
तस्माद्राज्ञा विशेषेणं वर्तितव्यं प्रजाहिते ॥

12.90.36

क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् ।
अधर्माः सम्प्रवर्धन्ते प्रजासन्करकारकाः ॥

12.90.37

अशीते विद्यते शीतं शीते शीतं न विद्यते ।
अवृष्टिरतिवृष्टिश्च व्याधिश्चाप्याविशेत्प्रजाः ॥

12.90.38

नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथागते ।
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥

12.90.39

अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति ।
प्रजाश्च तस्य क्षीयन्ते ततः सोऽनु विनश्यति ॥

12.90.40

द्वावाददाते ह्येकस्य द्वयोः सुबहवोऽपरे ।
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृपदूषणम् ॥

12.90.41

ममैतदिति नैतच्च मनुष्येष्ववतिष्ठति ।
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठित ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc