भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.9

12.9.1

मुहूर्तं तावदेकाग्रो मनः श्रोत्रेऽन्तरात्मनि ।
धारयन्नपि ते श्रुत्वा रोचते वचनं मम ॥

12.9.2

सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः ।
गच्छेयं तं गमिष्यामि हित्वा ग्राम्यसुखान्युत ॥

12.9.3

क्षेम्यश्चैकाकिना गम्यः पन्था कोस्तीति पृच्छ माम् ।
अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु ॥

12.9.4

हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः ।
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह ॥

12.9.5

जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चर्मचीरजटाधरः ॥

12.9.6

शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः ।
तपसा विधिदृष्टेन शरीरमुपशोषयन् ॥

12.9.7

मनःकर्णसुखा नित्यं श्रृण्वन्नुच्चावचा गिरः । मुदितानामरण्येषु नदतां मृगपक्षिणाम् ।

12.9.8

आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् ॥
नानारूपान्वने पश्यन्रमणीयान्वनौकसः ॥

12.9.9

वानप्रस्थजनस्यापि दर्शनं कूलवासिनः ।
नाप्रियाण्याचरिष्यामि किम्पुनर्ग्रामवासिनाम् ॥

12.9.10

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥

12.9.11

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् ॥

12.9.12

अथवैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ।
चरन्भैक्षं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् ॥

12.9.13

पांसुभिः समभिच्छन्नः शून्यागारप्रतिश्रयः ।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥

12.9.14

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ।
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः ॥

12.9.15

आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः ।
अकुर्वाणः परैः काञ्चित्संविदं जातु कैरपि ॥

12.9.16

जङ्गमाजङ्गमान्सर्वानविहिंसंश्चतुर्विधान् ।
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति ॥

12.9.17

न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीः क्वचित् ।
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः ॥

12.9.18

अपृच्छन्कस्यचिन्मार्गं प्रव्रजन्नेव केनचित् ।
न देशं न दिशं काञ्चिद्गन्तुमिच्छन्विशेषतः ॥

12.9.19

गमने निरपेक्षश्च पश्चादनवलोकयन् ।
ऋजुः प्रणिहितो गच्छन्स्त्रीसंस्थापरिवर्जकः ॥

12.9.20

स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि ।
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् ॥

12.9.21

अल्पं वा स्वादु वा भोज्यं पूर्वालाभेन जातुचित् ।
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् ॥

12.9.22

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।
अतीतपात्रसञ्चारे काले विगतभिक्षुके ॥

12.9.23

एककालं चरन्भैक्षं त्रीनथ द्वे च पञ्च वा ।
स्नेहपाशं विमुच्याहं चरिष्यामि महीमिमाम् ॥

12.9.24

अलाभे सति वा लाभे समदर्शी महातपाः ।
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् ॥

12.9.25

जीवितं मरणं चैव नाभिनन्दन्न च द्विपन् । वास्यैकं तक्षतो बाहुं चन्दनेनैकपुक्षतः ।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥

12.9.26

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः ॥

12.9.27

तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः ।
अपरित्यक्तसन्कल्पः सुनिर्णिक्तात्मकल्मपः ॥

12.9.28

विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥

12.9.29

वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि मानसीम् ।
तृष्णया हि महत्पापमज्ञानादस्मि कारितः ॥

12.9.30

कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः ।
कार्यकारणसंश्लिष्टं स्वजनं नाम ब्रिभ्रति ॥

12.9.31

आयुपोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम् ।
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् ॥

12.9.32

एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् ।
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् ॥

12.9.33

जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम् ।
अपारमिव चास्वस्थं संसारं त्यजतः सुखम् ॥

12.9.34

दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु ।
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् ॥

12.9.35

कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् ।
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते ॥

12.9.36

तस्मात्प्रज्ञामुतमिदं चिरान्मां प्रत्युपस्थितम् ।
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् ॥

12.9.37

एतया सन्ततं धृत्या चरन्नेवम्प्रकारया । जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम् ।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc