भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.8

12.8.1

अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी ।
अभिनीततरं वाक्यं दृढवादपराक्रमः ॥

12.8.2

दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः ।
स्मयमानो महातेजाः सृक्किणी परिसंलिहन् ॥
अर्जुन उवाच ।

12.8.3

अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् ।
यत्कृत्वाऽमानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ॥

12.8.4

शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् ।
हतामित्रः कथं स त्वं त्यजेथा बुद्धिलाघवात् ॥

12.8.5

क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः ।
किमर्थं च महीपालानवधीः क्रोधमूर्च्छितः ॥

12.8.6

यो ह्याजिजीविषेद्भैक्षं कर्मणा नैव कस्य चित् । समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः ।
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ॥

12.8.7

कापालीं नृप पापिष्ठां वृत्तिमासाद्य जीवतः ।
सन्त्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ॥

12.8.8

सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः ।
कस्मादाशंससे भैक्षं चर्तुं प्राकृतवत्प्रभो ॥

12.8.9

कस्माद्राजकुले जातो जित्वा कृत्स्नां वसुन्धराम् ।
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ॥

12.8.10

यदीमानि हवींषीह विमथिष्यन्त्यसाधवः ।
भवता विप्रहीणत्वात्प्राप्तं त्वामेव किल्विषम् ॥

12.8.11

आकिञ्चन्यं मुनीनां च इति वै नहुषोऽब्रवीत् ।
कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह ॥

12.8.12

आश्वस्तन्यमृषीणां हि विद्यते वेद तद्भवान् ।
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ॥

12.8.13

धर्मं स हरते तस्य धनं हरति यस्य यः ।
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ॥

12.8.14

अभिशस्तं प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् ।
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ॥

12.8.15

पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते ।
विशेषं नाधिगच्छामि पतितस्याधनस्य च ॥

12.8.16

अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥

12.8.17

अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप ।
प्राणयात्राऽपि लोकस्य विना ह्यर्थं न सिध्द्यति ॥

12.8.18

अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥

12.8.19

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥

12.8.20

अधनेनार्थकामेन नार्थः शक्यो विधित्सितुम् ।
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥

12.8.21

धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः ।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥

12.8.22

धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्धते ।
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥

12.8.23

नाधनो धर्मकृत्यानि यथावदनुतिष्ठति ।
धनाद्धि धर्मः स्रवति शैलादभिनदी यथा ॥

12.8.24

यः कृशार्थः कृशगवः कृशभृत्यः कृशान्तिथिः ।
स वै राजन्कृशो नाम न शरीरकृशः कृशः ॥

12.8.25

अवेक्षस्व यथान्यायं पश्य देवासुरं यथा ।
राजन्किमन्यज्ज्ञातीनां वधाद्गृध्यन्ति देवताः ॥

12.8.26

न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् ।
एतावानेव वेदेषु निश्चयः कविभिः कृतः ॥

12.8.27

अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ।
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ॥

12.8.28

द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः ।
द्रोहात्किमन्यज्ज्ञातीनां गृध्यन्ते येन देवताः ॥

12.8.29

इति देवा व्यवसिता वेदवादाश्च शाश्वताः ।
अधीयन्तेऽध्यापयन्ते यजन्ते याजयन्ति च ॥

12.8.30

कृत्स्नं तदेव तच्छ्रेयो यदप्याददतेऽन्यतः ।
न पश्यामोऽनपकृतं धनं किञ्चित्क्वचिद्वयम् ॥

12.8.31

एवमेव हि राजानो यजन्ति पृथिवीमिमाम् ।
जित्वा ममेयं ब्रुवते पुत्रा इव पितृर्धनम् ॥

12.8.32

राजर्षयोऽपि ते स्वर्ग्या धर्मो ह्येषां निरुच्यते ॥

12.8.33

यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश ।
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ॥

12.8.34

आसीदियं दिलीपस्य नृगस्य नहुषस्य च ।
अम्बरीपस्य मान्धातुः पृथिवी सा त्वयि स्थिता ॥

12.8.35

स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः ।
तं चेन्न यजसे राजन्प्राप्तस्त्वं राज्यकिल्बिषम् ॥

12.8.36

येषां राजाऽश्वमेधेन यजते दक्षिणावता ।
उपेत्य तस्यावभृथे पूताः सर्वे भवन्ति ते ॥

12.8.37

विश्वरूपो महादेवः सर्वमेधे महामखे ।
जुहाव सर्वभूतानि तथैवात्मानमात्मना ॥

12.8.38

शाश्वतोऽयं भूतिपथो नास्त्यन्तमनुशुश्रुम ।
महाजनपथं गन्ता मा राजन्कुपथं गमः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc