महाभारत · अध्याय 12.61
पुनः शिवान्महोदर्कानहिंस्रांल्लोकसम्मतान् ।
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् ॥
भीष्म उवाच ।
ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो ।
वर्णास्तान्नानुवर्तन्ते त्रयो भारतसत्तम ॥
उक्तानि कर्माणि बहूनि राज न्स्वर्ग्याणि राजन्यपरायणानि ।
शास्त्रस्य सर्वस्य विधौ स्मृतानि क्षात्रे हि सर्वं विहितं यथावत् ॥
क्षात्राणि वैश्यानि च सेवमानः शौद्राणि कर्माणि च ब्राह्मणः सत् ।
अस्मिँल्लोके निन्दितो मन्दचेताः । परे च लोके निरयं प्रयाति ॥
या सञ्ज्ञा विहिता लोके दासे शुनि वृके पशौ ।
विकर्मणि स्थिते विप्रे तां सञ्ज्ञां कुरु पाण्डव ॥
षट््कर्मसम्प्रवृत्तस्य आश्रमेषु चतुर्ष्वपि ।
सर्वधर्मोपपन्नस्य तद्भूतस्य कृतात्मनः ॥
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च ।
निराशिषो वदान्यस्य लोका ह्यक्षरसञ्ज्ञिताः ॥
यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च ।
तादृशं तादृशेनैव सगुणं प्रतिपद्यते ॥
वृद्ध्या कृषिवणिक्त्वेन जीवसञ्जीवनेन च ।
वेत्तुमर्हसि राजेन्द्र स्वाध्यात्मगुणितेन च ॥
कालसञ्चोदितः काले कालपर्यायनिश्चितः ।
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः ॥
अन्तवन्ति प्रदानानि परं श्रेयस्कराणि च ।
स्वकर्मविहितो लोको ह्यक्षरः सर्वतोमुखः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0