भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.60

12.60.1

आश्रमाणां महाबाहो शृणु सत्यपराक्रम ।
चतुर्णामपि नामानि कर्माणि च युधिष्ठिर ॥

12.60.2

वानप्रस्थं भैक्षचर्यं गार्हस्थ्यं च महाश्रमम् ।
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्रह्मणेरितम् ॥

12.60.3

चूडाकरणसंस्कारं द्विजातित्वमवाप्य च ।
आधानादीनि कर्माणि प्राप्य वेदानधीत्य च ॥

12.60.4

सदारो वाऽप्यदारो वा विनीतः संयतेन्द्रियः ।
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ॥

12.60.5

तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् ।
ऊर्ध्वरेताः प्रजा हित्वा गच्छत्यक्षरसात्मताम् ॥

12.60.6

एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् ।
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ॥

12.60.7

चरितब्रह्मचर्यस्य ब्राह्मणस्य विशाम्पते ।
भैक्षचर्यास्वधीकारः प्रशस्तो देहमोक्षणे ॥

12.60.8

यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ।
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥

12.60.9

निराशीर्निर्नमस्कारो निर्भोगो निर्विकारवान् ।
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ॥

12.60.10

अधीत्य वेदान्कृतसर्वकृत्यः सन्तानमुत्पाद्य सुखानि भुक्त्वा ।
समाहितः प्रचरेद्दुश्चरं तं गार्हस्थ्यधर्मं मुनिधर्मजुष्टम् ॥

12.60.11

स्वदारतुष्टस्त्वृतुकालगामी नियोगसेवी न शठो न जिह्नः ।
मिताशनो देवरतः कृतज्ञः सत्यो मृदुश्चानृशंसः क्षमावान् ॥

12.60.12

दान्तो विधेयो हव्यकव्याप्रमत्तो ह्यन्नस्य दाता सततं द्विजेभ्यः ।
अमत्सरी सर्वलिङ्गप्रदाता वैताननित्यश्च गृहाश्रमी स्यात् ॥

12.60.13

अथात्र नारायणगीतमाहु र्महर्षयस्तात महानुभावाः ।
महार्थमत्यन्ततपः प्रयुक्तं तदुच्यमानं हि मया निबोध ॥

12.60.14

सत्यार्जवं चातिथिपूजनं च धर्मस्तथार्थश्च रतिः स्वदारैः ।
निषेवितव्यानि सुखानि लोके ह्यस्मिन्परे चैव मतं ममैतत् ॥

12.60.15

भरणं पुत्रदाराणां वेदानां चानुपालनम् ।
सेवतामाश्रमं श्रेष्ठं वदन्ति परमर्षयः ॥

12.60.16

एवं हि यो ब्राह्मणो यज्ञशीलो गार्हस्थ्यमध्यावसते यथावत् ।
गृहस्थवृत्तिं प्रतिगाह्य सम्य क्स्वर्गे विशुद्धं फलमश्नुते सः ॥

12.60.17

तस्य देहं परित्यज्य इष्टकामाक्षया मताः ।
आनन्त्यायोपकल्पन्ते सर्वतोक्षिशिरोमुखाः ॥

12.60.18

वसन्नेको जपन्नेकः सर्वान्वेदान्युधिष्ठिर ।
एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान् ॥

12.60.19

ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी । गुरुच्छायानुगो नित्यमधीयानः सुयन्त्रितः ।
अविचाल्यव्रतोपेतं कृत्यं कुर्वन्वसेत्सदा ॥

12.60.20

शुश्रूषां सततं कुर्वन्गुरोः सम्प्रणमेत च ।
षट््कर्मस्वनिवृत्तश्च न प्रवृत्तश्च सर्वशः ॥

12.60.21

नाचरत्यधिकारेण सेवेत द्विषतो न च ।
एषोऽश्रमपदस्तात ब्रह्मचारिण इष्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc