महाभारत · अध्याय 12.5
आदित्कृतबलं कर्णं दृष्ट्वा राजा स मागधः ।
आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः ॥
तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः ।
युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः ॥
क्षीणबाणौ विधनुषौ भग्नखङ्गौ महीं गतौ ।
बाहुभिः समसज्जेतामुभावतिबलान्वितौ ॥
[बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः.] विभेदं सन्धिं देहस्य जरया श्लेषितस्य हि ॥
स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः ।
प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य दूरतः ॥
प्रीत्या ददौ स कर्णाय मालिनीं नगरीमनु ।
अङ्गेषु नरशार्दूल स राजाऽसीत्सपत्नजित् ॥
पालयामास वर्णांस्तु कर्णः परबलार्दनः ।
दुर्योधनस्यानुमते तवापि विदितं तथा ॥
एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ ।
त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले ॥
स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते ।
सहजं कवचं चापि मोहितो देवमायया ॥
विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा ।
निहतो विजयेनाजौ वासुदेवस्य पश्यतः ॥
ब्राह्मणस्यापि शापेन रामस्य च महात्मनः ।
कुन्त्याश्च वरदानेन मायया च शतक्रतोः ॥
भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात् । शल्यतेजोवधाच्चापि वासुदेवनयेन च ।
रुद्रस्य देवराजस्य यमस्य वरुणस्य च ।
कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः ॥
अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना ।
हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः ॥
एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः ।
न शोच्यः पुरुषव्याघ्र युद्धे हि निधनं गतः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0