भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.4

12.4.1

कर्णस्तु समवाप्यैवमस्त्रं भार्गवनन्दनात् ।
दुर्योधनेन सहितो मुमुदे भरतर्षभ ॥

12.4.2

ततः कदाचिदाजातः समाजग्मुः स्वयंवरे ।
कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च ॥

12.4.3

श्रीमद्राजपुरं नाम नगरं तत्र भारत ।
राजानः शतशस्तत्र कन्यार्थे समुपागमन् ॥

12.4.4

श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् ।
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ॥

12.4.5

ततः स्वयंवरे तस्मिन्नानादेश्या महारथाः ।
समाजग्मुर्नृपतयः कन्यार्थे नृपसत्तम ॥

12.4.6

शिशुपालो जरासन्धो भीष्मको वक्र एव च ।
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ॥

12.4.7

सृगालश्च महाराजः स्त्रीराज्याधिपतिश्च यः ।
विशोकः शतधन्वा च भोजो वीरश्च नामतः ॥

12.4.8

एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः ।
म्लेच्छाश्चार्याश्च राजानः प्राच्योदीच्यास्तथैव च ॥

12.4.9

काञ्चनाङ्गदिनः सर्वे शुद्धजाम्बूनदप्रभाः ।
सर्वे भास्वरदेहाश्च व्याघ्रा इव बलोत्कटाः ॥

12.4.10

ततः समुपविष्टेषु तेषु राजसु भारत ।
विवेश रङ्गं सा कन्या धात्रीवर्षवरान्विता ॥

12.4.11

ततः संश्राव्यमाणेषु राज्ञां नामसु भारत ।
अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी ॥

12.4.12

दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम् ।
प्रत्यपेधच्च तां कन्यामसत्कृत्य नराधिपान् ॥

12.4.13

स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः ।
रथमारोप्य तां कन्यामाजुहाव नराधिपान् ॥

12.4.14

तमन्वगाद्रथी खङ्गी बद्धगोधाङ्गुलित्रवान् ।
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ॥

12.4.15

ततो विमर्दः सुमहान्राज्ञामासीद्युयुत्सताम् । सन्नह्यतां तनुत्राणि रथान्योजयतामपि ।

12.4.16

तेऽभ्यधावन्त सन्क्रुद्धाः कर्णदुर्योधनावुभौ ।
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ॥

12.4.17

कर्णस्तेषामापततामेकैकेन शरेण ह ।
धनूंषि च शरव्रातान्पातयामास भूतले ॥

12.4.18

ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् ।
कांश्चिदुत्सृजतो बाणान्रथशक्तिगदास्तथा ॥

12.4.19

लाघवाव्द्याकुलीकृत्य कर्णः प्रहरतां वरः ।
हतसूतांश्च भूयिष्ठान्स विजिग्ये नराधिपान् ॥

12.4.20

ते स्वयं वाहयन्तोऽश्वान्याहि याहीति वादिनः ।
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ॥

12.4.21

दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा ।
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc