भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.47

12.47.1

ततः स च हृषीकेशः स च राजा युधिष्ठिरः ।
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ते ॥

12.47.2

रथैस्तैर्नगरप्रख्यैः पताकाध्वजशोभितैः ।
ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ॥

12.47.3

तेऽवतीर्य कुरुक्षेत्रे केशमढज्जास्थिसन्कुले ।
देहन्यासः कृन्तो यत्र क्षत्रियैस्तैर्महारथैः ॥

12.47.4

गजाश्वदेहास्थिचयैः पर्वतैरिव सञ्चितम् ।
नरशीर्षकपालैश्च हंसैरिव च सर्वशः ॥

12.47.5

चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम् ।
आपानभूमिं कालस्य तदा भुक्तोज्झितामिव ॥

12.47.6

भूतसङ्घानुचरितं रक्षोगणनिषेवितम् ।
पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः ॥

12.47.7

गच्छन्नेव महाबाहुः सर्वं यादवनन्दनः ।
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् ॥

12.47.8

अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः ।
येषु सन्तर्पयामास पितॄन्क्षत्रियशोणितैः ॥

12.47.9

त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः ।
इहेदानीं ततो रामः कर्मणो विरराम ह ॥
युधिष्ठिर उवाच ।

12.47.10

त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ।
रामेणेति यदात्थ त्वमत्र मे संशयो महान् ॥

12.47.11

क्षत्रबीजं यथा दग्धं रामेण यदुपुङ्गव ।
कथं भूयः समुत्यत्तिः क्षत्रस्यामितविक्रम ॥

12.47.12

महात्मना भगवता रामेण यदुपुङ्गव ।
कथमुत्सादित्तं क्षत्रं कथमृद्धिगतं पुनः ॥

12.47.13

महता रथयुद्धेन कोटिशः क्षत्रिया हताः ।
तथाऽभूच्च मही कीर्णा क्षत्रियैर्वदतां वर ॥

12.47.14

किमर्थं भार्गवेणेदं क्षत्रमुत्सादितं पुरा ।
रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना ॥

12.47.15

एतन्मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन ।
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज ॥
वैशम्पायन उवाच ।

12.47.16

ततो व्रजन्नेव गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः ।
युधिष्ठिरायाप्रतिमौजसे तदा यथाऽभवत्क्षत्रियसन्कुला मही ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc