भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.46

12.46.1

शरतल्पे शयानस्तु भरतानां पितामहः ।
कथमुत्सृष्टवान्देहं कं च योगमधारयत् ॥
वैशम्पायन उवाच ।

12.46.2

शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः ।
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥

12.46.3

प्रवृत्तमात्रे त्वयनमुत्तरेण दिवाकरे ।
शुक्लपक्षस्य चाष्टभ्यां माघमासस्य पार्थिव ॥

12.46.4

प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे । समावेशयदात्मानमात्मत्येव समाहितः ॥

12.46.5

विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः ।
शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥

12.46.6

व्यासेन देवश्रवसा नारदेन सुरर्षिणा ।
देवस्थानेन वात्स्येन तथाऽश्मकसुमन्तुना ॥

12.46.7

तथा जैमिनिना चैव पैलेन च महात्मना ।
शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता ॥

12.46.8

असितेन वसिष्ठेन कौशिकेन महात्मना ।
हारितलोमशाभ्यां च तथाऽत्रेयेण धीमता ॥

12.46.9

[बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः ।
सनत्कुमारः कपिलो चाल्मीकिस्तुम्बुरुः कुरुः ॥

12.46.10

मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः ।
पिप्पलादोऽथ वायुश्च सवर्तः पुलहः कचः ॥

12.46.11

काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः ।
मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः ॥

12.46.12

धौम्यो विभाण्डो माण्डव्योधौम्रः कृष्णानुभौतिकः । उलूकः परमो विप्रो मार्कण्डेयो महामुनिः ।
भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः ॥

12.46.13

एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः ।
श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः ॥

12.46.14

भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा ।
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः ॥

12.46.15

स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् । योगेश्वरं पझनाभं विष्णुं जिष्णुं जगत्पतिम् ।
अनादिनिधनं विष्णुमात्मयोनिं सनातनम् ॥

12.46.16

कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः ॥
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥
भीष्म उवाच ।

12.46.17

आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम् ।
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥

12.46.18

शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ।
युक्त्वा सर्वात्मनाऽत्मानं तं प्रपद्ये प्रजापतिम् ॥

12.46.19

अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ।
एकोऽयं वेद भगवान्धाता नारायणो हरिः ॥

12.46.20

नारायणादृषिगणास्तथा सिद्धमहोरगाः ।
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥

12.46.21

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
यं न जानन्ति को ह्येष कुतो वा भगवानिति ॥

12.46.22

यमाहुर्जगतः कोशं यस्मिंश्च निहिताः प्रजाः । यस्मिँल्लोकाः स्फुरन्त्येते जाले शकुनयो यथा ॥

12.46.23

यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ।
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥

12.46.24

यं च विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् वदन्ति जगतोऽध्यक्षमध्यात्मपरिचिन्तकाः ॥

12.46.25

यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति ।
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥

12.46.26

हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ।
सहस्रबाहुमकुटं सहस्रवदनोज्ज्वलम् ॥

12.46.27

प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥

12.46.28

चं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥

12.46.29

चतुर्भिश्चतुरात्मानं सत्वस्थं सात्वतां पतिम् ।
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥

12.46.30

[यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति । सर्वात्मा सर्ववित्सर्वः सर्वज्ञः सर्वभावनः ॥ ]

12.46.31

यं देवं देवकी देवी वसुदेवादजीजनत् ।
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ॥

12.46.32

यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ।
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि ॥

12.46.33

अप्रतर्क्यमविज्ञेयं हरिं नारायणं विभुम् । अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् ।
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥

12.46.34

पुराणे पुरुषं प्रोक्तं ब्रह्मप्रोक्तं युगादिषु ।
क्षये सन्कर्षणं प्रोक्तं तमुपास्यमुपास्महे ॥

12.46.35

यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम् ।
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥

12.46.36

ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ।
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥

12.46.37

यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः ।
प्रयता नित्यमर्चन्ति परमं सुखभेषजम् ॥

12.46.38

अनादिनिधनं देवमात्मयोनिं सनातनम् ।
अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम् ॥
अथ भीष्मस्तवराजः ॥

12.46.39

हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् ।
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥

12.46.40

शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः ।
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥

12.46.41

हुताशनमुखैर्देवैर्धार्यते सकलं जगत् । हविः प्रथमभोक्ता यस्तस्मै होत्रात्मने नमः ॥

12.46.42

महतस्तमसः पारे पुरुषं ह्यतितेजसम् ।
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥

12.46.43

यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे ।
यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ॥

12.46.44

पादाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनभूषितम् ।
यमाहुरक्षरं विप्रास्तस्मै वागात्मने नमः ॥

12.46.45

[यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहारह । लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ॥ ]

12.46.46

ऋग्यजुःसामधामानं दशार्धहविराकृतिम् ।
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥

12.46.47

[चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः ॥ ]

12.46.48

यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः ।
रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः ॥

12.46.49

यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः ।
हिरण्यपक्षः शकुनिस्तस्मै तार्क्ष्यात्मने नमः ॥

12.46.50

यश्चिनोति सतां सेतुमृतेनामृतयोनिना ।
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥

12.46.51

यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः ।
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥

12.46.52

[यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः । उन्मादः सर्वभूतानां तस्मै कामात्मने नमः ॥ ]

12.46.53

यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः ।
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥

12.46.54

यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः ।
प्राहुः सप्तदशंसाङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥

12.46.55

यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मेन नमः ॥

12.46.56

अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ।
शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥

12.46.57

यस्याग्रिरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः ॥

12.46.58

युगेष्वावर्तते योंऽशैर्मासर्त्वयनहायनैः ।
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥

12.46.59

योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः ।
सम्भक्षयति भूतानि तस्मै घोरात्मने नमः ॥

12.46.60

सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् ।
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥

12.46.61

सहस्रशिरसे तस्मै पुरुषायामितात्मने ।
चतुःसमुद्रपयसि योगनिद्रात्मने नमः ॥

12.46.62

अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् ।
पुष्करं पुष्कराक्षस्य तस्मै पझात्मने नमः ॥

12.46.63

यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥

12.46.64

यस्मात्सर्गाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः ॥

12.46.65

[यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः । इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः ॥ ]

12.46.66

अकार्यः सर्वकार्येषु धर्मकार्यार्थमुद्यतः ।
वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः ॥

12.46.67

ब्रह्म वक्तं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः ।
पादौ यस्याश्रिताः शूद्रास्तस्मैवर्णात्मने नमः ॥

12.46.68

अन्नपानेन्धनमयो रसप्राणविवर्धनः ।
यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥

12.46.69

[प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम् । अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ॥ ]

12.46.70

विषये वर्तमानानां यं तं वैषयिकैर्गुणैः ।
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥

12.46.71

अप्रमेयशरीराय सर्वतो बुद्धिचक्षुषे ।
अपारपरिमाणाय तस्मै दिव्यात्मने नमः ॥

12.46.72

परः कालात्परो यज्ञात्परः सदसतश्च यः ।
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥

12.46.73

वैद्युतो जाठरश्चैव पावकः शुचिरेव च ।
दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः ॥

12.46.74

रसातलगतः श्रीमार्ननन्तो भगवान्प्रभुः ।
जगद्धारयते योऽसौ तस्मै शेषात्मने नमः ॥

12.46.75

ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम् ।
यस्तेजयति तेजांसि तस्मै तेजात्मने नमः ॥

12.46.76

आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् ।
यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥

12.46.77

साङ्ख्यैर्योगैर्विनिश्चित्य साध्यैश्च परमर्षिभिः ।
यस्य तु ज्ञायते तत्वं तस्मै गुह्यात्मने नमः ॥

12.46.78

जटिने दण्डिने नित्यं लम्बोदरशरीरिणे ।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥

12.46.79

[शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने ।
भस्मदिग्धोर्ध्वलिङ्गाय तस्मा रुद्रात्मने नमः ॥

12.46.80

चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने । पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः ॥ ]

12.46.81

यो जातो वसुदेवेन देवक्यां यदुनन्दनः ।
शङ्खचक्रगदापाणिर्वासुदेवात्मने नमः ॥

12.46.82

शिरःकपालमालाय व्याघ्रचर्मनिवासिने ।
भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः ॥

12.46.83

यो मोहयति भूतानि सर्वपाशानुबन्धनैः ।
सर्वस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥

12.46.84

चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम् ।
सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः ॥

12.46.85

पञ्चभूतात्मभूताय भूतादिनिधनाय च ।
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥

12.46.86

यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः ॥

12.46.87

यः शेते क्षीरपर्यङ्के दिव्यनागविभूषिते ।
फणासहस्ररचिते तस्मै निद्रात्मने नमः ॥

12.46.88

विश्वे च मरुतश्चैव रुद्रादित्याश्विनावपि ।
वसवः सिद्धसाध्याश्च तस्मै देवात्मने नमः ॥

12.46.89

अव्यक्तं बुद्ध्यहन्कारो मनोबुद्धीन्द्रियाणि च ।
तन्मात्राणि विशेषाश्च तस्मै तत्वात्मने नमः ॥

12.46.90

भूतं भव्यं भविष्यच्च भूतादिप्रभवाव्ययः ।
योऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः ॥

12.46.91

यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः ।
सूक्ष्मात्सूक्ष्मं च यद्ब्रह्म तस्मै सूक्ष्मात्मने नमः ॥

12.46.92

मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः ।
रसातलगतः शीघ्रं तस्मै मत्स्यात्मने नमः ॥

12.46.93

मन्दराद्रिर्धृतो येन प्राप्ते ह्यमृतमन्थने ।
अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः ॥

12.46.94

वाराहं रूपमास्थाय महीं सवनपर्वताम् ।
उद्धरत्येकदंष्ट्रेण तस्मै क्रोडात्मने नमः ॥

12.46.95

नारसिंहवपुः कृत्वा सर्वलोकभयन्करम् ।
हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः ॥

12.46.96

पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखैर्युतम् ।
दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः ॥

12.46.97

यं न देवा न गन्धर्वा न दैत्या न च दानवाः । तत्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः ॥ ]
वामनं रूपमास्थाय बलिं संयम्य मायया । त्रैलोक्यं क्रान्तवान्यस्तु तस्मै क्रान्तात्मने नमः ॥

12.46.98

जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः ।
महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः ॥

12.46.99

त्रिःसप्तकृत्वो यश्चैको धर्मे व्युत्क्रान्तिगौरवात् ।
जघान क्षत्रियान्सङ्ख्ये तस्मै क्रोधात्मने नमः ॥

12.46.100

[विभज्य पञ्चधाऽत्मानं वायुर्भूत्वा शरीरगः । यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः ॥ ]

12.46.101

रामो दशिरथिर्भूत्वा पुलस्त्यकुलनन्दनम् ।
जघान रावणं सङ्ख्ये तस्मै क्षत्रात्मने नमः ॥

12.46.102

यो हली मुसली श्रीमान्नीलाम्बरधरः स्थितः ।
रामाय रौहिणेयाय तस्मै भोगात्मने नमः ॥

12.46.103

शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे ।
वनमालाधरायैव तस्मै कृष्णात्मने नमः ॥

12.46.104

वसुदेवसुतः श्रीमान्क्रीडितो नन्दगोकुले ।
कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः ॥

12.46.105

वासुदेवत्वमागम्य यदोर्वंशसमुद्भवः ।
भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः ॥

12.46.106

सारथ्यमर्जुनस्याजौ कुर्वन्गीतामृतं ददौ ।
लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः ॥

12.46.107

दानवांस्तु वशे कृत्वा पुनर्बुद्धत्वमागतः ।
सर्गस्य रक्षणार्थाय तस्मै बुद्धात्मने नमः ॥

12.46.108

हनिष्यति कलौ प्राप्ते म्लेच्छांस्तुरगवाहनः ।
धर्मसंस्थापको यस्तु तस्मै कल्क्यात्मने नमः ॥

12.46.109

तारान्वये कालनेमिं हत्वा दानवपुङ्गवम् ।
ददौ राज्यं महेन्द्राय तस्मै साङ्ख्यात्मने नमः ॥

12.46.110

यः सर्वप्राणिनां देहे साक्षिभूतो ह्यवस्थितः ।
अक्षरः क्षरमाणानां तस्मै साक्ष्यात्मने नमः ॥

12.46.111

नमोस्तु ते महादेव नमस्ते भक्तवत्सल ।
सुब्रह्मण्य नमस्तेऽस्तु प्रसीद परमेश्वर ॥

12.46.112

अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो ।
नारायणं सहस्राक्षं सर्वलोकमहेश्वरम् ॥

12.46.113

हिरण्यनाभ यज्ञाङ्गममृतं विश्वतोमुखम् ।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ॥

12.46.114

येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः ।
मङ्गल भगवान्विष्णुर्मङ्गलं मधुसूदनः ॥

12.46.115

मङ्गलं पुण़्डरीकाक्षो मङ्गलं गरुडध्वजः ।
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव ॥

12.46.116

अपवर्गस्थभूतानां पञ्चानां परमास्थित ।
नमस्ते त्रिषु लोकेषु वमस्ते परतस्त्रिषु ॥

12.46.117

नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् ।
नमस्ते भगवन्विष्णो त्येकानां प्रभवाव्यय ॥

12.46.118

त्वं हि कर्ता हृषीकेशः संहर्ता चापराजितः ।
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषुवर्त्मसु ॥

12.46.119

तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम् । दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा ।
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥

12.46.120

[दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः । सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः ॥ ]

12.46.121

व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो ।
अव्यक्तं ब्राह्मणं रूपं व्यक्तमेतच्चराचरम् ॥

12.46.122

अतसीपुष्पसन्काशं पीतवाससमच्युतम् ।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥

12.46.123

[एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥

12.46.124

कृष्णव्रताः कृष्णमनुस्मरन्तो रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते कृष्णदेहाः प्रविशन्ति कृष्ण माज्यं यथा मन्त्रहुतं हुताशे ॥

12.46.125

नमो नरकसन्त्रासरक्षामण्डलकारिणे ।
संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ॥

12.46.126

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥

12.46.127

प्राणकान्तारपाथेयं संसारोच्छेदभेषजम् । दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥ ]

12.46.128

नारायणपरं ब्रह्म नारायणपरं तपः ।
नारायणपरं सत्यं नारायणपरं परम् ॥

12.46.129

यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः ।
तथा विष्णुमयं सर्वं पाप्मा ने नश्यतां तथा ॥

12.46.130

तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः ॥

12.46.131

त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे ।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥

12.46.132

इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः ।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥
वैशम्पायन उवाच ।

12.46.133

एतावदुक्त्वा वचनं भीष्मस्तद्रतमानसः ।
नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥

12.46.134

तस्मिन्नुपरते वाक्ये ततस्ते ब्रह्मवादिनः ।
भीष्मं वाग्भिर्वाष्पगलास्तमानर्चुर्महाद्युतिम् ॥

12.46.135

तेऽस्तुवन्तश्च विप्रेन्द्राः केशवं पुरुषोत्तमम् ।
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥

12.46.136

अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः ।
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ॥

12.46.137

विदित्वा भक्तियोगं तं भीष्मस्य पुरुषोत्तमः ।
सहसोत्थाय तं हृष्टो यानमेवान्वपद्यत ॥

12.46.138

केशवः सात्यकिश्चैव रथेनकेन जग्मतुः ।
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥

12.46.139

भीमसेनो यमौ चोभौ रथमेकं समास्थिताः ।
कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ॥

12.46.140

ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः ।
नेमिघोषेण महता कम्पयन्ते वसुन्धराम् ॥

12.46.141

ततो गिरः पुरुषवरस्तवेरितां द्विजेरिताः पथिषु मनाक् स शुश्रुवे ।
कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनास्थनन्दत ॥

12.46.142

इति स्मरन्पठति च शार्ङ्गधन्वनः शृणोतु वा यदुकुलनन्दनस्तवम् ।
स चक्रभृत्प्रतिहतसर्वाकिल्विषो जनार्दनं प्रविशति देहसन्क्षये ॥

12.46.143

यं योगिनः प्राणवियोगकाले यत्नेन चित्ते विनिवेशयन्ति ।
स तं पुरस्ताद्धरिमीक्षमाणः प्राणाञ्जहौ प्राप्तफलो हि भीष्मः ॥

12.46.144

स्ववराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः ।
गाङ्गेयेन पुरा गीतो महापातकनाशनः ॥

12.46.145

इमं नरः स्तवराजं मुमुक्षुः पठञ्शुचिः कलुषितकल्मषापहम् ।
अतीत्य लोकान्मलिनः समामता न्पदं स गच्छत्यमृतं महात्मनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc