भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.40

12.40.1

प्रकृतीनां च तद्वाक्यं देशकालोपबृंहितम् ।
श्रुत्वा युधिष्ठिरो राजाऽथोत्तरं प्रत्यभाषत ॥

12.40.2

धन्याः पाण्डुसुता नूनं येषां ब्राह्मणपुङ्गवाः ।
तथ्यान्वाप्यथवाऽतथ्यान्गुणानाहुः समागताः ॥

12.40.3

अनुग्राह्या वयं नूनं भवतामिति मे मतिः ।
यदेवं गुणसम्पन्नानस्मान्ब्रूथ विमत्सराः ॥

12.40.4

धृतराष्ट्रो महाराजः पिता नो दैवतं परम् ।
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः ॥

12.40.5

एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् ।
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा ॥

12.40.6

यदि चाहमनुग्राह्यो भवतां सुहृदां तथा ।
धृतरा यथापूर्वं वृत्तिं वर्तितुमर्हथ ॥

12.40.7

एष नाथो हि जगतो भवतां च मया सह ।
अस्य प्रसादे पृथिवी पाण्डवाः सर्व एव च ॥

12.40.8

एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम ।
अनुज्ञाप्याथ तान्राजा यथेष्टं गम्यतामिति ॥

12.40.9

पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः ।
यौवराज्येन कौन्तेयं भीमसेनमयोजयत् ॥

12.40.10

मन्त्रे च निश्चये चैव षाङ्गुण्यस्य च चिन्तने ।
विदुरं बुद्धिसम्पन्नं प्रीतिमान्स समादिशत् ॥

12.40.11

कृताकृतपरिज्ञाने तथाऽयव्ययचिन्तने ।
सञ्जयं योजयामास वृद्धं सर्वगुणैर्युतम् ॥

12.40.12

बलस्य परिमाणे च भक्तवेतनयोस्तथा ।
नकुलं व्यादिशद्राजा कर्मणां चान्ववेक्षणे ॥

12.40.13

परचक्रोपरोधे च दृप्तानां चावमर्दने ।
युधिष्ठिरो महाराज फल्गुनं व्यादिदेश ह ॥

12.40.14

द्विजानां देवकार्येषु कार्येष्वन्येषु चैव ह ।
धौम्यं पुरोधसां श्रेष्ठं नित्यमेव समादिशत् ॥

12.40.15

सहदेवं समीपस्थं नित्यमेव समादिशत् ।
तने गोप्यो हि नृपतिः सर्वावस्थो विशाम्पते ॥

12.40.16

यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु ।
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः ॥

12.40.17

विदुरं सञ्जयं चैव युयुत्सुं च महामतिम् ।
अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः ॥

12.40.18

उत्थायोत्थाय तत्कार्यमस्य राज्ञः पितुर्मम ।
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथा मम ॥

12.40.19

पौरजानपदानां च यानि कार्याणि नित्यशः ।
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc